SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ ३३७ द्वाविंशं रथनेमीयमध्ययनम् सव्वोसहीहिं न्हविओ, कयकोउयमंगलो । दिव्वजुअलपरिहिओ आहरणेहिं विभूसिओ ॥९॥ व्याख्या-अथासन्ने क्रोष्टक्यादिष्टलग्ने सति, सर्वोषधीभिर्जयाविजयद्धिवृद्ध्यादिभिः स्नपितोऽभिषिक्तः, कृतकौतुकमङ्गलः, तत्र कौतुकानि ललाटमुशलस्पर्शादीनि, मङ्गलानि च दध्यक्षतदुर्वाचन्दनादीनि, तानि कृतानि यस्य स कृतकौतुकमङ्गलः, परिहितं दिव्यं युगलं देवदुष्यं येन सः, तथा आभरणैर्मुकुटकुण्डलालङ्कारैर्विभूषितः, एवंविधोऽरिष्टनेमिकुमारो ज्ञेयः ॥९॥ मत्तं च गंधहत्थिं च, वासुदेवस्स जिगं । आरूढो सोहई कुमरो (अहियं), सिरे चूडामणी जहा ॥१०॥ व्याख्या-वासुदेवस्य ज्येष्ठकं मत्तं गन्धहस्तिनं पट्टहस्तिनमारूढोऽरिष्टनेमिकुमारो यथा शिरसि मस्तके चूडामणिः शिरोरत्नमिव शोभते ॥१०॥ अह ऊसिएण छत्तेणं, चामराहि य सोहिओ । दसारचक्केण य सो, सव्वओ परिवारिओ ॥११॥ व्याख्या-अथानन्तरं वृष्णिपुङ्गवो नेमिकुमारो निजकाद्भवनात् स्वगृहान्निसृतः, कीदृश्या ऋद्धयेत्याह-उच्छ्रितेनोच्चैःकृतेन छत्रेण, उभयपार्श्वे च चामराभ्यां शोभितः, पुनर्दशार्हचक्रेण यादवसमूहेन सर्वतः परिवारितः ॥११॥ चउरंगिणीए सेणाए, रड्याए जहक्कम । तुरियाण सन्निनाएणं, दिव्वेणं गयणंफुसा ॥१२॥ व्याख्या-पुनश्चतुरङ्गिण्या हस्त्यश्वरथपदातिभेदया सेनया यथाक्रमं परिपाट्या रचितया न्यस्तया युतः, पुनर्गगनस्पृशा वियन्मण्डलव्यापिना दिव्येन प्रधानेन देवकृतेन वा, तूर्याणां मृदङ्गपटहादीनां सन्निनादेन मनोहरध्वनिनोपलक्षितः ॥१२॥ एयारिसीए इड्डीए, जुईए उत्तमाइ य । णियगाओ भवणाओ, णिज्जाओ वण्हिपुंगवो ॥१३॥ व्याख्या-एतादृश्या ऋद्ध्या धुत्या चोत्तमयोपलक्षितः स [निर्यातो] निःसृत इति सम्बन्धो ज्ञेयः ॥१३।। Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002569
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorJaykirtisuri
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy