________________
३३६
श्रीउत्तराध्ययनदीपिकाटीका-२ सोरिट्ठनेमिनाहो, लक्खणस्सरसंजुओ।
अट्ठसहस्सलक्खणधरो, गोयमो कालगच्छवी ॥५॥ व्याख्या-सोऽरिष्टनेमिनाथो लक्षणस्वरसंयुतो लक्षणैः सहितः स्वरस्तेन संयुतः सौस्वर्यगाम्भीर्यादिलक्षणोपेतस्वरयुतः, (पाठान्तरे-'वंजणसंजुओ' तत्र व्यञ्जनानि प्रशस्ततिलकादीनि तैः संयुतः) तथैवाष्टोत्तरसहस्रलक्षणधरः करादिरेखात्मकचक्रादिलक्षणधारी, गौतमगोत्रीयः, कालकच्छविः कृष्णत्वगासीदिति ।।५।।
वज्जरिसहसंघयणो, समचउरंसो झसोयरो ।
तस्स राईमई कण्णं, भज्जं जायइ केसवो ॥६॥ व्याख्या-पुनः स वज्रऋषभनाराचसंहननयुतः, वज्रं कीलिका, ऋषभः पट्टो, नाराच उभयपार्श्वयोर्मर्कटबन्धः, एभिः संहननं शरीररचना यस्य स वज्रर्षभनाराचसंहननः, पुनः समचतुरस्त्रः प्रथमसंस्थानवान् , यः पद्मासने स्थितः सन् चतुर्पु पार्वेषु सदृशशरीरप्रमाणो भवति स समचतुरस्रसंस्थानवान् उच्यते । पुनर्झषोदरः, झषस्य मत्स्यस्य उदरमिवोदरं यस्य स झषोदरः एवंविधस्य तस्य श्रीनेमेः कृते केशवः कृष्णो राजीमती नाम्नी कन्यां तद्भार्यां याचते ॥६।। अथ सा राजीमती कीदृशीत्याह
अह सा रायवरकण्णा, सुसीला चारुपेहिणी ।
सव्वलक्खणसंपुण्णा, विज्जुसोदामणिप्पभा ॥७॥ व्याख्या-अथ सा राजवरस्य उग्रसेनस्य राज्ञः कन्या, सुशीला उत्तमशीलालङ्कृता, चारुप्रेक्षिणी चारु प्रेक्षितुं शीलमस्याः सा, नाधोदृष्टितादिदोषदूषिता, सर्वलक्षणसम्पूर्णा चतुःषष्टिकामिनीकलादिलक्षणसंयुता, तथा विशेषेण द्योतते इति विद्युत् , सा चासौ सौदामिनी च, तत्प्रभा यस्या विद्यते सा विद्युत्सौदामिनीप्रभा, एवंविधा सा वर्त्तते ॥७॥
अहाह जणओ तीसे, वासुदेवं महड्डियं ।
इहागच्छउ कुमारो, जा से कन्नं दलामहं ॥८॥ व्याख्या-अथेति याञ्चानन्तरं तस्या राजीमत्या जनक उग्रसेनो महद्धिकं वासुदेवं प्रत्याह, कुमारोऽरिष्टनेमिरिहास्मद्गृहे आगच्छतु, 'जा' येन 'से' तस्मै तां राजीमती कन्यामहं ददामीति ॥८॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org