________________
द्वाविंशं रथनेमीयमध्ययनम् ॥
एकत्वे च संयमे ध्यानान्तरावाप्तावपि पुनर्धर्मे स्थैर्य कार्यमिति रथनेमीयाख्यं द्वाविंशाध्ययनमाह
सोरियपुरंमि नयरे, आसि राया महड्डिओ ।
वसुदेवि त्ति नामेणं, रायलक्खणसंजुए ॥१॥ व्याख्या-सौर्यपुरे नाम्नि नगरे वसुदेव इति नाम्ना राजासीत् । स महद्धिकश्छत्रचामरादिविभूतियुतः, पुना राजलक्षणसंयुतः, चक्रस्वस्तिकाङ्कुशादीनि, त्यागसत्यशौर्यादीनि वा, तैः संयुतो राजलक्षणसंयुतोऽभूदिति ॥१॥
तस्स भज्जा दुवे आसि, रोहिणी देवई तहा ।
तासिं दोण्हं दुवे पुत्ता, अइट्ठा रामकेसवा ॥२॥ व्याख्या-तस्य वसुदेवस्य द्वे भार्ये आस्तां, रोहिणी तथा देवकी, तयोर्द्वयोवौं पुत्रावभूतां, अभीष्टौ मातापित्रोरधिकवल्लभौ रामकेशवाभिधानौ ॥२॥
सोरियपुरंमि नयरे, आसि राया महड्डिए ।
समुद्दविजये नामं, रायलक्खणसंजुए ॥३॥ व्याख्या-तस्मिन्नेव सौर्यपुरेनगरेमहद्धिकस्तथैव राजलक्षणसंयुतः समुद्रविजयनामा राजाजसीत् । अत्र पुनः सौर्यपुरोक्तिः समुद्रविजयवसुदेवयोरेकत्र स्थितिज्ञप्त्यै ।।३।।
तस्स भज्जा सिवा नाम, तीसे पुत्ते महायसे ।
भयवं अरिट्टनेमि, तिलोगनाहे दमीसरे ॥४॥ व्याख्या-तस्य भार्या शिवा नाम्नी, तस्याः पुत्रश्च भगवानैश्वर्यवान् , महायशा महाकीर्तिः, त्रिलोकनाथस्तथा दमीश्वरः कुमारत्वेऽपि कन्दर्पजेता अरिष्टनेमिनामासीत् ।।४।।
_Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org