SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ ३३४ श्रीउत्तराध्ययनदीपिकाटीका-२ ___ व्याख्या-पुनः स समुद्रपालमुनिस्त्रायी षट्कायरक्षकः सन् विविक्तानि स्त्र्यादिरहितोपाश्रयादिधर्मस्थानानि भजते, पुनर्निरुपलेपानि उपलेपवर्जितानि, द्रव्यतस्तदर्थं नोपलिप्तानि, भावतो रागाभावेन असंस्कृतानि, पुनरसंसृतानि शाल्यादिसचित्तबीजादिभिरव्याप्तानि, निर्दोषतया च ऋषिभिश्चीर्णानि आसेवितानि । पुनः स कायेन परीषहानस्पृशत् सहते स्म । पुनः परीषहसहनोक्तिर्गाढपरीषहसहनज्ञप्त्यै ।।२२॥ स नाणनाणोवगओ महेसी, अणुत्तरं चरिउं धम्मसंचयं । अणुत्तरेनाणधरे जसंसी, ओभासइ सूरिए वंतलिक्खे ॥२३॥ व्याख्या-स समुद्रपालमुनिः ज्ञानं श्रुतज्ञानं, तेन ज्ञानं अवगमः क्रियाकलापस्य, तेनोपगतो ज्ञानज्ञानोपगतः, यद्वा सन्ति शोभनानि नानाऽनेकधा ज्ञानानि, धर्मरुचित्वात् सद्बोधास्तैरुपगतः सन्नानाज्ञानोपगतो महर्षिश्चरित्वा धर्मसञ्चयं क्षान्त्यादियतिधर्मसमूहमनुत्तरं प्रधानं, एकारस्याऽलाक्षणिकत्वादनुत्तरं ज्ञानं केवलज्ञानं धारयतीत्यनुत्तरज्ञानधरः (पाठान्तरे-गुणोत्तरनाणधरः, गुणप्रधानं ज्ञानं केवलं तद्धरः) च यशस्वी सन् अन्तरिक्षे आकाशे सूर्य इवावभासते तपस्तेजसा ज्ञानप्रकाशेन वा विराजते इति ॥२३।। तस्य फलमाहदुविहं खवेऊण य पुण्णपावं, निरंगणे सव्वओ विप्पमुक्के । तरित्ता समुदं व महाभवोहं, समुद्दपाले अपुणागमं गई गए ॥२४॥त्ति बेमि व्याख्या-'दुविहं' द्विविधं घातिभवोपग्राहिभेदेन पुण्यपापं शुभाऽशुभप्रकृतिरूपं क्षिप्वा, अङ्गेर्गत्यर्थत्वान्निरङ्गनः संयमे निश्चलः शैलेश्यवस्थां प्राप्त इत्यर्थः (पाठान्तरेनिरञ्जनः कर्मसङ्गरहितः) सर्वतो बाह्यादान्तराच्च देहादिसङ्गाद्विप्रमुक्तः, ती|ब्धिमिवाऽतिदुस्तरं महाभवौघं देवादिभववृन्दं, स समुद्रपालो मुनीश्वरोऽपुनरागमा पुनरागमरहितां मोक्षरूपां गतिं गतः प्राप्तः, इति समाप्तौ ब्रवीमीति प्राग्वत् ॥२४॥ इत्येकत्वार्थे एकविंशं समुद्रपालीयाध्ययनमुक्तम् ॥२१॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002569
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorJaykirtisuri
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy