________________
एकविंशं समुद्रपालीयमध्ययनम्
३३३ व्याख्या-शीतोष्णदंशमशकतृणस्पर्शादयः परीषहाः, तथा विविधा आतङ्का रोगास्तस्य साधोदेहं स्पृशन्ति उपतापयन्ति, कुत्सितं कूजति, पीडितः सन्नाक्रन्दतीति कूकुजः, न तथेत्यकूकुजः (पाठान्तरे-'अकक्करे 'त्ति वेदनाकुलितोऽपि न तदा कर्करायितकारी) परं तत्र शीतादिकालेषु तान् परीषहानध्यसहत, अनेन पूर्वसूत्रोक्त एवार्थः स्पष्टीकृतः, एवंविधश्च स पुराकृतानि रजांसि कर्माण्यक्षिपत् क्षयमनयत् ॥१८||
पहाय रागं च तहेव दोसं, मोहं च भिक्खू सततं वियक्खणो । मेरु व्व वाएण अकंपमाणो, परीसहे आयगुत्ते सहिज्जा ॥१९॥
व्याख्या-रागं तथैव च द्वेषं च मोहं मिथ्यात्वहास्यादि अज्ञानं वा प्रहाय त्यक्त्वा सततं विचक्षणो निरन्तरतत्त्वविचाररतः स भिक्षुर्मुनिरात्मगुप्तः कूर्मवदात्मना गुप्तः सङ्कचितसर्वाङ्गः, च मेरुरिव वातेनाऽकम्पमानः परीषहानसहत, अनेन परीषहसहनोपाय उक्तः ।।१९।।
अणुण्णए नावणए महेसी, न यावि पूयं गरहं च संजए । से उज्जुभावं पडिवज्ज संजए, निव्वाणमग्गं विरए उवेइ ॥२०॥
व्याख्या-अनुन्नतोऽभिमानरहितः, पुनर्नाऽवनतो दीनभावरहितः, एवंविध स संयतः समुद्रपालमुनिर्महर्षिर्न चापि पूजां गहाँ च प्रति असजत् , तयोः सङ्गं नाकरोदिति । एवं स ऋजुभावं प्रतिपद्य [संयतो] विरतो पापान्निवृत्तः सन् निर्वाणमार्गमुपैति प्राप्नोतीति ॥२०॥
अरइड्सहे पहीणसंथवे, विरए आयहिए पहाणवं । परमट्ठपएहिं चिट्ठइ, छिन्नसोए अममे अकिंचणे ॥२१॥
व्याख्या-अरतिरती संयमाऽसंयमविषये यः सहते, न ताभ्यां बाध्यते, प्रक्षीणसंस्तवो विगतगृहस्थपरिचयः, विरतः पापक्रियातो निवृत्तः, आत्महितः सर्वजीवहितवाञ्छकः, प्रधानवान् प्रधानः सर्वसंयमो मुक्तिहेतुत्वात् , स यस्यास्त्यसौ प्रधानवान् , परमार्थो मोक्षः सम्पद्यते यैस्तानि परमार्थपदानि सम्यग्दर्शनादीनि, तेषु स मुनिस्तिष्ठति । पुनः स छिन्नशोकः, अममो ममत्वरहितः, अकिञ्चनः परिग्रहरहित आसीदिति ॥२१॥
विवित्तलयणाई भएज्ज ताई, निरोवलेवाइं असंथडाइं । इसीहि चिन्नाइं महायसेहिं, काएण फासिज्ज परीसहाई ॥२२॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org