________________
३३२
श्रीउत्तराध्ययनदीपिकाटीका-२ सहिष्णुत्वाऽसहिष्णुत्वरूपं ज्ञात्वात्मनो, यथा यथा संयमयोगहानिर्न स्यात्तथा स तस्थौ । सिंह इव शब्देन भयोत्पादकेन न सन्त्रसेत् सत्वान्नाऽत्रसत् , अत एव वाग्योगं दु:खोत्पादकं श्रुत्वा नाऽसभ्यमब्रवीत् ॥१४॥
किमयमकरोदित्याहउवेहमाणो उ परिव्वइज्जा, पियमप्पियं सव्व तितिक्खएज्जा । ण सव्व सव्वत्थऽभिरोयइज्जा, न यावि पूयं गरहं च संजए ॥१५॥
व्याख्या-पुनः स साधुः उपेक्ष्यमाणो जनाऽसभ्यमवगणयन् परिव्रजेत् , मनसि वचसि च दुर्वचनमधारयन् ग्रामानुग्रामेषु विहृतवान् । प्रियमप्रियं सर्वमपि तितिक्षेत् सोढवानिति । पुनः स सर्वं वस्तु सर्वत्र नाऽभ्यरोचयत् , दृष्टऽदृष्टाऽभिलाषुको नाभूत् , यत् क्वापि पुष्टालम्बनसेवितं न तत्सर्वमिष्टान्नादि स सर्वत्राभिलषितवानित्यर्थः, पुनः स संयतः संयतमना न चापि पूजां गहाँ वा इष्टाऽनिष्टतयाभ्यरोचयत् ॥१५॥
भिक्षोरप्यन्यथाभावात् किं स्याद्येनेत्थं तद्गुणोक्तिरित्याहअणेग छंदा इह माणवेहिं, जे भावओ संपकरेइ भिक्खू । भयभेरवा तत्थ उविंति भीमा, दिव्वा मणुस्सा अदुवा तिरिच्छा ॥१६॥
व्याख्या अनेके छन्दा अभिप्रायाः स्युः, इह जगति, सुब्ब्यत्ययान्मानवेषु, याननेकान् भावतस्तत्त्ववृत्त्या सम्प्रकरोति भिक्षुरपि । तथा तत्र भिक्षायां भयभैरवा गाढभयङ्करा उद्यन्ति (पाठान्तरे-'उविंति' उपयन्ति) भीमा रौद्राः, दिव्या मानुषास्तैरश्चा अथवोपसर्गाः ॥१६॥
परीसहा दुव्विसहा अणेगे, सीयंति जत्था बहुकायरा नरा । से तत्थ पत्ते णऽवहिज्ज भिक्खू, संगामसीसे इव नागराया ॥१७॥
व्याख्या-परीषहाश्चोद्यन्ति दुर्विषहा अनेके, सीदन्ति संयमे श्लथीभवन्ति यत्र येषूपसर्गेषु परीषहेषु सत्सु बहुकातरा नराः, स समुद्रपालसाधुस्तत्र तेषु , वचनव्यत्ययात् प्राप्तेषु नाऽव्यथत न सत्वादचलत् , सङ्ग्रामशीर्षे इव युद्धप्रकर्षे इव नागराजा सुहस्ती ॥१७॥
सीओसिणादंसमसगाय फासा, आयंका देहं विविहा फुसंति । अकुक्कुओ तत्थऽहियासएज्जा, रयाई खेविज्ज पुराकडाइं ॥१८॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org