________________
एकविंशं समुद्रपालीयमध्ययनम्
३३१ __ व्याख्या-एवं भावयन् सम्बुद्धो ज्ञाततत्वः स तस्मिन्नेव प्रासादालोकने भगवान् माहात्म्यवान् परं प्रकृष्टं संवेगमागतः सन् आपृच्छय मातापितरौ प्रावाजीत् अगच्छदनगारितां निःसङ्गताम् ॥१०॥
जहित्तु संगं च महाकिलेसं, महंतमोहं कसिणं भयाणगं । परियायधम्मं च ऽभिरोयएज्जा, वयाणि सीलाणि परीसहे य ॥११॥
व्याख्या-स समुद्रपालो भगवान् हित्वा सङ्ग, चः पूर्ती यद्वा ['सग्गंथ'] सङ्गश्चासौ ग्रन्थश्च सद्ग्रन्थः, उभयत्र स्वजनप्रतिबन्धं, महान् क्लेशो दुःखं यस्माद्यस्मिन् वा महाक्लेशं, महान् मोहो यस्मिस्तं, कृत्स्नं कृष्णं वा, कृष्णलेश्याहेतुत्वेन भयानकं, विवेकिनां भयावहं । पर्यायधर्मः प्रव्रज्यापर्यायस्तं, चः पूर्ती, अभिरोचयेत् , स सङ्गं त्यक्त्वा प्रव्रजित इति भावार्थः, पुनः स व्रतानि महाव्रतानि, शीलानि पिण्डविशुद्ध्याधुत्तरगुणरूपाणि, [परीषहानिति] भीमसेनन्यायेन परीषहसहनानि च स प्रपन्नवानिति ॥११॥
अहिंस सच्चं च अतेणयं च, तत्तो य बंभं अपरिग्गरं च । पडिवज्जिया पंच महव्वयाई, चरिज्ज धम्मं जिणदेसियं विऊ ॥१२॥
व्याख्या-अहिंसां सत्यं च अस्तैन्यकं, ततश्च ब्रह्मचर्य, अपरिग्रहं च, एवं प्रतिपद्य पञ्च महाव्रतानि जिनोपदिष्टं धर्मं श्रुतचारित्ररूपं स विद्वान् चरेत् चरतीति ॥१२॥
सव्वेहिं भूएहिं दयाणुकंपी, खंतिक्खमे संजयबंभयारी । सावज्जजोगं परिवज्जयंते, चरिज्ज भिक्खू सुसमाहिइंदिए ॥१३॥
व्याख्या-सुब्व्यत्ययात् सर्वेषु भूतेषु दयया हितोपदेशरूपया रक्षणरूपया वाऽनुकम्पनशीलोऽनुकम्पी, क्षान्त्या तत्त्वशक्त्या क्षमते दुर्वचनादीनीति शान्तिक्षमः, संयतश्चासौ ब्रह्मचारी च संयतब्रह्मचारी, पूर्वत्र ब्रह्मप्रतिपत्त्या गतार्थत्वेऽपि ब्रह्मचारीत्यभिधानं ब्रह्मचर्यस्य दुश्चरत्वज्ञप्त्यै, एवंविधः स समुद्रपालो भिक्षुः सावद्ययोगं पापयोगं परिवर्जयन् सुसमाधितेन्द्रियः सन् चरेत् विचरति स्मेति ॥१३॥
कालेण कालं विहरिज्ज रट्टे, बलाबलं जाणिय अप्पणो अ । सीहो व सद्देण ण संतसिज्जा, वययोग सुच्चा ण असब्भमाहु ॥१४॥
व्याख्या-रूढितः काले प्रस्तावे, यद्वा कालेन पादोनपौरुष्यादिना, कालं कालोचितं प्रत्युपेक्षणादि कुर्वन् व्यवहरन् साधुमार्गे चलन् राष्ट्र मण्डले बलाबलं
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org