________________
३३०
श्रीउत्तराध्ययनदीपिकाटीका-२ खेमेण आगए चंपं, पालिए सावए घरं ।
संवड्डई तस्स घरे, दारए से सुहोचिए ॥५॥ व्याख्या-अथ स पालितः श्रावकः क्षेमेण चम्पायां स्वगृहे आगतः, स दारकश्च सुखोचित सुकुमारस्तस्य गृहे संवर्द्धते ॥५॥
बावत्तरिकलाओ य, सिक्खिए णीइकोविए ।
जोवणेण य संपन्ने, सुरूवं पियदंसणे ॥६॥ व्याख्या-स बालः द्वासप्ततिकलाश्च शिक्षितो नीतिकोविदो न्यायाऽभिज्ञः, यौवनेन च सम्पन्नः पूर्णाङ्गः सुरूपः सुसंस्थानः प्रियदर्शनश्च ॥६॥
तस्स रूववई भज्जं, पिया आणेइ रूविणिं ।
पासाए कीलए रम्मे, देवो दोगुंदगो जहा ॥७॥ व्याख्या-तस्य कृते तस्य पिता रूपवती रूपिणीतिनाम्नी पत्नीमानयति, स तया सह पित्रा परिणायित इत्यर्थः, तया सह स रम्ये मनोहरे प्रासादे दोगुन्दकस्त्रायस्त्रिंशद्देव इव क्रीडति ॥७॥
अह अन्नया कयाई, पासायालोयणे ट्ठिओ ।
वज्झमंडणसोभागं, वझं पासइ वज्झगं ॥८॥ व्याख्या-अथान्यदा कदाचित् प्रासादालोकने स्थितः सन् स वध्यमण्डनानि रक्तचन्दनकरीरादीनि, तैः शोभा यस्यासौ वध्यमण्डनशोभाकः, तं वध्यं वधार्ह कञ्चन पश्यति बाह्यगं, कोऽर्थः ? बहिनि:क्रामन्तं, यद्वा वध्यगं, इह वध्यशब्देनोपचाराद्वध्यभूरुक्ता ॥८॥
तं पासिऊण संविग्गो, समुद्दपालो इणमव्ववी।
अहो असुहाण कम्माणं, णिज्जाणं पावगं इमं ॥९॥ व्याख्या-तं दृष्ट्वा संविग्नः संवेगं प्राप्तः सन् समुद्रपालः (पाठान्तरे–'संवेगं' संवेगहेतुः) इदमब्रवीत् । अहो अशुभानां कर्मणां निर्यानेऽवसाने पापकमशुभमिदं प्रत्यक्षं, यदसौ वराको वधार्थमित्थं नीयते ॥९॥
संबुद्धो सो तहिं भगवं, परमसंवेगमागओ । आपुच्छम्मापियरं, पव्वइए अणगारियं ॥१०॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org