________________
एकविंशं समुद्रपालीयमध्ययनम् ॥
तदनाथत्वं च सत्यैकत्वेन स्यादिति तद्वाच्येकविंशं समुद्रपालीयाध्ययनमाह
चंपाए पालिए नाम, सावए आसि वाणिए ।
महावीरस्स भगवओ, सीसो सो उ महप्पणो ॥१॥ व्याख्या-चम्पायां पुरि पालितो वणिक् सार्थवाह [श्रावकः श्रमणोपासकः] आसीत् , तु पुनः स महावीरस्य भगवतः अर्हतो महात्मनो महाबलस्य शिष्यः, श्रीवीरबोधितत्वात् ॥१॥
निग्गंथे पावयणे, सावए से विकोविए ।
पोएण ववहरते, पिहुंडं णगरमागए ॥२॥ व्याख्या-निर्ग्रन्थे निर्ग्रन्थसम्बन्धिनि प्रवचने स श्रावकः पालितो विकोविदो विशेषेण कोविदो ज्ञातजीवादितत्त्वः, पोतेन व्यवहरन् प्रवहणवाणिज्यं कुर्वन् पिहुण्डं नामकं नगरमागतः ॥२॥
पिहुंडे ववहरंतस्स, वाणिओ देइ धूअरं।
तं ससत्तं पइगिज्झ, सदेसमह पत्थिओ ॥३॥ व्याख्या-पिहुण्डे व्यवहरतस्तस्य तद्गुणाकृष्टचेताः कश्चिद्वाणिजो ददाति दुहितरं, स च तामूढवान् , स्थित्वा च तत्र कियत्कालं ससत्त्वां सगर्भां तां प्रतिगृह्यादाय स्वदेशमथ प्रस्थितः ॥३॥
अह पालिअस्स घरणी, समुइंमि य पसवइ ।
अह दारए तहिं जाए, समुद्दपालि त्ति नामए ॥४॥ व्याख्या-अथ पालितस्य गृहिणी समुद्रे प्रसूते स्म, अथ तस्मिन् प्रसवने दारकः सुतो जातः, समुद्रपाल इति नामतः ॥४॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org