________________
३२८
श्रीउत्तराध्ययनदीपिकाटीका-२ सकलाध्ययनार्थोपसंहारमाहएवं थुणित्ताण स रायसीहो, अणगारसीहं परमाइ भत्तीए । सओरोहो सपरियणो सबंधवो [य], धम्माणुरत्तो विमलेण चेयसा ॥५८॥
व्याख्या स राजासिंहोऽतिपराक्रमात्तस्य सिंहोपमा, श्रेणिकराजा एवममुना प्रकारेण अनगारसिंहं साधुसिंह, कर्ममृगान् प्रत्यतिदारुणत्वात्तस्यापि सिंहोपमा ज्ञेया, परमयोत्कृष्टया भक्त्या स्तुत्वा, विमलेन निर्मलेन विगतमिथ्यात्वमलेन चेतसा धर्मानुरक्तोऽभूत् । कीदृशः सः ? सावरोधः सान्तःपुरः, सपरिजनः सबान्धवश्च, तत्रान्तःपुरपरिजनबान्धवाश्च वनक्रीडार्थं तेन सार्द्धमेवासन् ॥५८॥
ऊससियरोमकूवो, काऊण य पयाहिणं ।
अभिवंदिऊण सिरसा, अइयाओ नराहिवो ॥५९॥ व्याख्या-उच्छसितरोमकूपो मुनिदर्शनवाक्यश्रवणतश्चोल्लसितरोमकूप एवंविधोऽसौ नराधिपः श्रेणिकः शिरसा मुनिमभिवन्द्य नमस्कृत्य च प्रदक्षिणां कृत्वाऽभियातः स्वस्थानं गतः, एष श्रेणिकस्य श्रीवीरनतेरर्वाक् पूर्वसम्यक्त्वलाभः ॥५९॥
इयरो वि गुणसमिद्धो तिगुत्तिगुत्तो तिदंडविरओ य ।
विहंग इव विप्पमुक्को, विहरइ वसुहं विगयमोहो ॥६०॥ त्ति बेमि व्याख्या-अथ इतरोऽपि श्रेणिकापेक्षयाऽपरोऽपि स मुनिरपि विहग इव विप्रमुक्तः क्वापि ममत्वरहितो वसुधां विहरति स्म । कीदृशः सन् ? गुणसमिद्धः साधुगुणगणालङ्कृतः, त्रिगुप्तिगुप्तः, त्रिदण्डविरतः, विगतमोहो मोहरहितः सन् , केवली सन् , इति समाप्तौ ब्रवीमीति प्राग्वत् ।।
इत्यनाथत्वे विंशतितमं महानिर्ग्रन्थीयाध्ययनमुक्तम् ॥२०॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org