SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ विंशतितमं महानिर्ग्रन्थीयाध्ययनम् ३२७ ' व्याख्या-एवं स श्रेणिकपृष्टो मुनिरकथयत् , तत्कालापेक्षया कथयति, उग्रः कर्मारीन् प्रति स एव दान्त उग्रदान्तः, अपिः पूत्तौं, महातपोधनो, महामुनिः, महाप्रतिज्ञोऽतिदृढव्रतो महायशाः, महानिर्ग्रन्थेभ्यो हितं महानिर्ग्रन्थीयमिदं महाश्रुतं महता विस्तरेणेति ॥५३॥ ततश्च तुट्ठो य सेणिओ राया, इणमुदाहु कयंजली । अणाहत्तं जहाभूयं, सुट्ठ मे उवदंसियं ॥५४॥ व्याख्या-च पुनस्तुष्टो हृष्टः श्रेणिको राजा कृताञ्जलिः सन् हु निश्चयेन इदमुदाहावदीत् , हे मुने ! यथाभूतं यथावस्थितं सत्यमनाथत्वं 'मे' मह्यं त्वया सुष्ठपदिष्टम् ॥५४॥ तुम्हं सुलद्धं खुमणुस्सजम्मं, लाभा सुलद्धा य तुमे महेसी । तुब्भे सणाहा य सबंधवा य, जं भे ठिया मग्गि जिणुत्तमाणं ॥५५॥ व्याख्या-तव सुलब्धं खु निश्चितं मनुष्यजन्म, लाभा वर्णरूपाद्याप्तिरूपाः, धर्मचारित्रोपलम्भा वा 'तुमे' युष्माभिः सुलब्धाः, उत्तरोत्तरगुणप्रकर्षहेतुत्वात् , च एवार्थे, हे महर्षे ! 'तुब्भे' यूयं सनाथाश्च सबान्धवाश्च तत्त्वतः, यद्यस्मात् 'भे' इति भवन्तः स्थिता मार्गे जिनोत्तमानां, जिनोत्तममार्गे स्थितत्वं हि सुलब्धजन्मत्वादौ हेतुः ॥५५।। तं सि णाहो अणाहाणं, सव्वभूयाण संजया । खामेमि ते महाभाग, इच्छामि अणुसासिउं ॥५६॥ व्याख्या-हे संयत ! त्वं अनाथानां सर्वभूतानां त्रसानां स्थावराणां जीवानां नाथोऽसि, इति पूर्वार्धेन तदुपबृंहणा कृता । हे महाभाग ! हे महाभाग्ययुक्त ! 'ते' इति त्वामहं क्षमामि, मया पूर्वं यस्तवापराधः कृतः स त्वया क्षन्तव्यः, इच्छामि च त्वयाऽनुशासयितुं शिक्षितुमात्मानमिति ॥५६॥ पुच्छिऊण मए तुब्भं, झाणविग्यो य जो कओ । निमंतिया य भोगेहि, तं सव्वं मरिसेहि मे ॥५७॥ व्याख्या-पुनर्नृपः क्षमयति, हे मुने ! मया तुभ्यं 'पुच्छिण'त्ति पृष्ट्वा, कथं त्वं प्रथमे वयसि प्रव्रजित इत्यादि पृष्ट्वा यस्तव मया ध्यानविघ्नः कृतः, च पुनभोगैर्निमन्त्रितो यथा भो स्वामिन् ! भोगान् भुझ्वेत्यादि, तं सर्वं ममापराधं मृष ! क्षमस्वेत्यर्थः ॥५७।। Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002569
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorJaykirtisuri
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy