________________
३२६
श्रीउत्तराध्ययनदीपिकाटीका-२ दुरात्मतायामपि सुन्दरात्मतामेति, अहं शुभ एवेति, अन्यस्य तु स्यादपि किञ्चित् फलं, परं 'से' तस्य तु अयमपि लोको नास्ति लोचादिकष्टात् , परोऽपि लोकस्तस्य नष्टः कुगतिगमनात् , तथा च द्विधाप्यैहिकपारत्रिकार्थाभावेन स उभयलोकसुखसम्पन्नजनान् वीक्ष्य धिग्मामुभयभ्रष्टमिति चिन्तया क्षीयते, तत्रेत्युभयलोकाऽभावे सति, लोके जगति ॥४९।।
यदुक्तं स ज्ञास्यति पश्चादनुतापेनेति, तत्र यथासौ परितप्यते तथा दर्शयन्नुपसंहरतिएमेवाहाछंदकुसीलरूवे, मग्गं विराहित्तु जिणुत्तमाणं । कुररी इवा भोगरसाणुगिद्धा, निरट्ठसोया परियावमेइ ॥५०॥
व्याख्या-एवमेव अमुना प्रकारेण महाव्रताऽस्पर्शनादिप्रकारेण यथाछन्दः कुशीलरूपः स्वरुचिरचिताचारः कुत्सितशीलस्वभावो जिनोत्तमानां मार्गं विराध्य कुररीव पक्षिणीव भोगरसानुगृद्धा निरर्थकशोका परितापं पश्चात्तापमेति, यथैषाऽामिषगृद्धा पक्ष्यन्तरेभ्यो विपत्प्राप्तौ शोचते, यत एषा तद्विपत्प्रतीकारं न लभते, एवमसावपि भोगरसगृद्धो लोकद्वयानप्तिौ शोचते, ततोऽस्य स्वान्यरक्षणाऽक्षमत्वेनाऽनाथत्वम् ।।५०।।
सोच्चाण मेहावि सुभासियं इमं, अणुसासणं नाणगुणोववेयं । मग्गं कुसीलाण जहाय सव्वं, महानियंठाण वए पहेणं ॥५१॥
व्याख्या-श्रुत्वा हे मेधाविन् ! सुभाषितमिमं मदुक्तं अनुशासनं शिक्षणं, ज्ञानगुणोपपेतं, ज्ञानं तथा ज्ञानस्य गुणो विरतिस्ताभ्यां ज्ञानगुणाभ्यामुपेतं युक्तं, च मार्ग कुशीलानां जहाय त्यक्त्वा सर्वं, महानिर्ग्रन्थानां पथा व्रजेस्त्वम् ॥५१॥
ततः फलमाहचरित्तमायारगुणण्णिए तओ, अणुत्तरं संजम पालियाणं । निरासवे संखवियाण कम्मं, उवेइ ठाणं विउलुत्तमं धुवं ॥५२॥
व्याख्या-चरित्रस्याचारः सेवनं, गुणो ज्ञानं, ताभ्यामन्वितो, मोऽलाक्षणिक:, ततो महानिर्ग्रन्थमार्गत्वादनुत्तरं प्रधानं 'संयम पालियाणं'त्ति संयमं यथाख्यातं पालयित्वा निराश्रवः कर्म सङ्क्षिप्य क्षयं नीत्वा उपैति स्थानं विपुलं, अनन्तानां तत्र स्थितेः, उत्तम जगत्प्रधानत्वात् विपुलोत्तम, ध्रुवं मुक्तिपदम् ॥५२।।
उपसंहरतिएवुग्गदंते वि महातवोधणे, महामुणी महापइन्ने महायसे । महानियंठिज्जमिणं महासुयं, से कहेइ महया वित्थरेणं ॥५३॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org