________________
३२५
विंशतितमं महानिर्ग्रन्थीयाध्ययनम्
अमुमेवार्थं भावयतितमं तमेणेव उ से असीले, सया दुही विप्परियासुवेइ । संधावई नरगतिरिक्खजोणिं, मोणं विराहित्तु असाहुरूवे ॥४६॥
व्याख्या-तमस्तमसैवाऽतिमिथ्यात्वोपहततया प्रकृष्टाऽज्ञानेनैव, तुः पूर्ती, स द्रव्ययतिः अशीलः सदा दुःखी विराधनोत्थदुःखेनैव, विपर्यासं तत्त्वादिषु वैपरीत्यमुपैति, ततश्च सन्धावति सततं गच्छति नरकतिर्यग्योनी:, मौनं चारित्रं विराध्याऽसाधुरूपस्तत्त्वतोऽयतिस्वभावः सन् अनेन विराधनायाः फलमुक्तम् ॥४६॥
कथं पुनर्मोनं विराध्य कथं वा नरकतिर्यग्योनीर्यातीत्याहउद्देसियं कीयगडं नियागं, न मुंचइ किंचि अणेसणिज्जं । अग्गीव वा सव्वभक्खी भवित्ता, इओ चुओ गच्छइ कट्ट पावं ॥४७॥
व्याख्या-उद्देशिकं साधुमुद्दिश्य कृतं, क्रीतेन कृतं साधुनिमित्तं मौल्येन गृहीतं, नित्याकं नित्यपिण्डं, गृहस्थगृहे नियतपिण्डं, एतादृशं यः साधुन मुञ्चति किञ्चिदनेषणीयमशुद्धं, सोऽग्निरिव सर्वमप्राशुकमपि भक्षयतीत्येवंशीलः सर्वभक्षी भूत्वा, कृत्वा च पापं, इतश्च्युतो गच्छति कुगतिम् ॥४७॥ ।
ण तं अरी कंठछित्ता करेइ, जं से करे अप्पणिया दुरप्पा । से णाहई मच्चुमुहं तु पत्ते, पच्छाणुतावेण दयाविहूणे ॥४८॥
व्याख्या यतः स्वपापैर्दुर्गतेः प्राप्तिरतो न नैव तमर्थमरि: कंठच्छेत्ता प्राणहर्ता करोति, यत्तस्य करोत्यात्मीया दुरात्मता दुराचारवृत्तिः, न चैनामाचरन्नपि जन्तुरत्यन्तमूढतया वेत्ति, परं स दुरात्मा पापकर्ता ज्ञास्यति निजदुरात्मतां मृत्युमुखं प्राप्तः, पश्चादनुतापेन, हा दुष्टेन मयाऽनुष्ठितेयमितिरूपेण, दयया संयमेन विहीनः सन् , यतश्चैवं महाऽनर्थहेतुः पश्चात्तापहेतुश्च दुरात्मता, तत आदित एव सा त्याज्या ॥४८॥
यस्त्वन्तेऽपि तां न वेत्स्यति तस्य किमित्याहनिरट्ठिया नग्गरुइ उ तस्स, जे उत्तमटुं विवज्जासमेइ । इमे वि से नत्थि परे वि लोए, दुहओ वि से झिज्झइ तत्थ लोए ॥४९॥
व्याख्या-निरर्थकैव निष्फलैव, तुः एवार्थे, नाग्न्ये श्रामण्ये रुचिर्नागन्यरुचिः, तस्य, 'उत्तमटुं'त्ति, सुब्व्यत्ययादपेर्गम्यत्वात् उत्तमार्थे पर्यन्तसमाराधनायामपि विपर्यासं,
___JainEducation International 2010_02
For Private & Personal Use Only
www.jainelibrary.org