________________
३२४
श्रीउत्तराध्ययनदीपिकाटीका-२ तथा स मुण्डरुचिरप्यसारः (पाठान्तरे-पोल्लारमुट्ठी, स एवार्थः) वा इवार्थेऽयन्त्रितोऽनियमितः कूटकार्षापण इव, यथायं येन केनचित् कूटतया नियन्त्र्यते, तथैषोऽपि निर्गुणत्वादुपेक्षणीयः, राढामणिः काचमणिर्वैडूर्यमणिसदृशोऽप्यमहार्घको महामूल्यो न भवति, हुर्निश्चये, ज्ञेषु मुग्धजनविप्रतारकत्वात् ॥४२॥
कुसीललिंगं इह धारइत्ता, इसिज्झयं जीविय वूहइत्ता । असंजए संजय लप्पमाणे, विणिघायमागच्छड़ से चिरं पि ॥४३॥
व्याख्या कुशीललिङ्ग पार्श्वस्थादिवेषं इह जन्मनि ऋषिध्वजं ऋषिचिह्न रजोहरणादि, आर्षत्वाज्जीविकायै बृंहयित्वा, इदमेव प्रधानमिति ख्यापनेनोपबृह्य यद्वा, सुब्व्यत्ययात् ऋषिध्वजेन, बिन्दुलोपाज्जीवितमसंयमजीवितं जीविकां वा निर्वहणोपायरूपां बृंहयित्वाऽत एवाऽसंयतः सन् , प्राकृतत्वात् संयतमात्मानं लपन् (पाठान्तरे'संजयलाभमाणि'त्ति, आर्षत्वात् संयतलाभं स्वर्गापवर्गादिरूपं मन्यमानो) ममायं भविष्यतीति विगणयन् विनिघातं विविधाभिघातरूपमागच्छति चिरमपि नरकादौ ॥४३॥
इहैव हेतुमाहविसं तु पीयं जह कालकूट, हणाइ सत्थं जह कुग्गहीयं । एसेवं धम्मो विसओववन्नो, हणाइ वेयाल इवाविवन्नो ॥४४॥
व्याख्या-विषं, तु स्वार्थे, पीतं यथा कालकूटाख्यं ‘हणाइ'त्ति हन्ति, शस्त्रं च यथा कुगृहीतं कुत्सितं गृहीतं हन्ति, [एष] एवं विषादिवद्धर्मो यतिधर्मो विषयोपपन्न: शब्दादिविषययुक्तो हन्ति दुर्गतिहेतुत्वेन द्रव्ययति, वेताल इव वाऽविपन्नोऽप्राप्तविपन्मन्त्राद्योऽनियन्त्रितः (पाठान्तरे-'वेयाल इवाविबंधणो'-अविबन्धनो मन्त्राद्यनियन्त्रितो वेताल इवेति) ॥४४॥
जे लक्खणं सुविणपउंजमाणे, निमित्तकोऊहलसंपगाढे । कुहेडविज्जासवदारजीवी, ण गच्छई सरणं तंमि काले ॥४५॥
व्याख्या-यो लक्षणं सामुद्रिकादि स्वप्नं च प्रयुञ्जानो व्यापारयन् , निमित्तं भौमादि, कौतुकमपत्याद्यर्थं स्नपनादि, तयोः सम्प्रगाढोऽतिशयेनासक्तो निमित्तकौतुकसम्प्रगाढः, कुहेटकविद्या अलीकाश्चर्यकृन्मन्त्रतन्त्रविद्याः, ता एव कर्मबन्धहेतुतयाजाश्रवद्वाराणि, तैर्जीवितुं शीलमस्येति कुहेटकविद्याश्रवद्वारजीवी न गच्छति न प्राप्नोति शरणं त्राणं दुर्गतेः, 'तंमि'त्ति तस्मिन् काले भोगस्य काले ॥४५।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org