________________
३२३
विंशतितमं महानिर्ग्रन्थीयाध्ययनम्
व्याख्या-इयं वक्ष्यमाणा, हुः पूर्तो, अन्या, अपि समुच्चये, अनाथता, यदभावतोऽहं नाथो जात इत्याशयः, हे नृप ! तामनाथतां एकचित्तो निवृत्तः स्थिर: सन् त्वं शृणु ! निर्ग्रन्थधर्मं निर्ग्रन्थानामाचारं लब्ध्वापि, यथेत्युपदर्शने सीदन्ति तदनुष्ठानं प्रति शिथिलीभवन्ति, एके केचन ईषत्कातरा निःसत्त्वाः, बहुकातरा नराः, यदि वा कातरा एव बहवः सम्भवन्तीति बहुशब्दो विशेषणे, सीदन्तश्च न स्वमन्यांश्च रक्षयितुं क्षमा इति सीदनलक्षणान्यनाथता ॥३८॥
जो पव्वइत्ताण महव्वयाई, सम्मं च नो फासयई पमाया ।
अणिग्गहप्पायरसेसु गिद्धे, न मूलओ छिंदइ बंधणं से ॥३९॥ व्याख्या-यः प्रव्रज्यापि महाव्रतानि सम्यग् न स्पृशति, न सेवते, प्रमादान्निद्रादेरनिगृहीतात्मा, अत एव रसेषु मधुरादिषु गृद्धः, इदृक् सन् स मूलतो बन्धनं रागद्वेषात्मकं न छिनत्ति ॥३९॥
आउत्तया जस्स य नत्थि काइ, इरियाइ भासाइ तहेसणाए । आयाणनिक्खेव दुगंछणाए, न वीरजायं अणुजाइ मग्गं ॥४०॥
व्याख्या-आयुक्तताऽवधानता काचित् स्वल्पापि यस्य च नास्ति, ईर्यायां भाषायां तथैषणायां, सुब्लोपात् आदाननिक्षेपयोः, जुगुप्सायां, इहोच्चारादीनां संयमाऽनुपयोगितया जुगुप्सनीयत्वेनैव परिष्ठापनात् परिष्ठापनैव जुगुप्सतोक्ता, स ईदृग् वीरैर्यातो वीरयातस्तन्मार्ग मुक्तिपथं नानुयाति ॥४०॥
चिरं पि से मुंडक़ई भवित्ता, अथिरव्वए तवनियमेहि भट्ठो । चिरं पि अप्पाणं किलेसइत्ता, न पारए होइ हु संपराए ॥४१॥
व्याख्या-तथा चिरं मुण्डे एव केशलोचे एव शेषानुष्ठानपराङ्मुखतया रुचिर्यस्यासौ मुण्डरुचिर्भूत्वा अस्थिरव्रतो गृहीतमुक्त व्रतस्तपोनियमेभ्यो भ्रष्टश्चिरमप्यात्मानं क्लेशयित्वा लोचादिना । न पारगो भवति, हुर्वाक्यालङ्कारे, 'सम्पराय'त्ति, सुब्ब्यत्ययात् सम्परायस्य संसारस्य ॥४१॥
पुल्लेव मुट्ठी जह से असारे, अयंतिए कूडकहावणे वा । राढामणीवेरुलियप्पगासे, अमहग्घए होइ हु जाणएसु ॥४२॥ व्याख्या-पोल्लेवान्तःसुषिरेव, न मनागपि निबिडा, मुष्टिर्यथा सा असाराऽर्थशून्या
___Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org