________________
३२२
श्रीउत्तराध्ययनदीपिकाटीका-२ तओ कल्ले पभायंमि, आपुच्छित्ताण बंधवे ।
खंतो दंतो निरारंभो, पव्वइओ अणगारियं ॥३४॥ व्याख्या-ततो वेदनाशमादनन्तरमहं कल्योऽरोगः प्रभाते बान्धवान् पित्रादिस्वजनान् आपृच्छ्याऽहं क्षान्तः पुनर्दान्तो निरारम्भश्च अनगारत्वं साधुत्वं प्रव्रजितः ।।३४।।
तओ हं णाहो जाओ, अप्पणो य परस्स य ।
सव्वेसिं चेव भूयाणं, तस्साणं थावराण य ॥३५॥ व्याख्या-तत इति प्रव्रज्याप्रतिपत्तेरनन्तरमहं नाथो जातो योगक्षेमकरणक्षमतयाडात्मनः पस्स्य च, आत्मनः शुद्धप्ररूपित्वात् , परस्य च हितचिन्तनात् , च पुनः एव निश्चयेन सर्वेषां भूतानां त्रसानां स्थावराणां च नाथो जात इति ॥३५॥ किं दीक्षाया अनु नाथस्त्वं जातः ? पुरा ते नेत्याह
अप्पा णई वेयरणी, अप्पा मे कूडसामली । ___ अप्पा कामदुधा घेणू, अप्पा मे नंदणं वणं ॥३६॥
व्याख्या-आत्मैव नदी वैतरणी नरकस्य सम्बन्धिनी, तद्धेतुत्वात् , अत एवात्मैव कूटमिव जन्तुयातनाहेतुत्वात् शाल्मलीकूटः, शाल्मली नरकोद्भवा, आत्मैव हितार्थकृत्तया कामदुधा धेनुः, इयं च रूढ्योक्त्या, एतदौपम्यं स्वर्मोक्षाद्याप्तिहेतुत्वात् , आत्मैव मे नन्दनं वनं, नन्दनौपम्यं च चित्तप्रह्लत्तिहेतुत्वात् ॥३६।।
अप्पा कत्ता विकत्ता य, सुहाण य दुहाण य ।
अप्पा मित्तममित्तं च, दुप्पट्ठिय सुपट्ठिओ ॥३७॥ व्याख्या-आत्मैव कर्ता दुःखानां सुखानां च, विकरिता च विक्षेपकश्चात्मैव तेषां, अतः स्वात्मैव मित्रमुपकारितया, अमित्रं चापकारितया, कीदृक् सन् ? दुःप्रस्थितो दुराचारः, सुप्रस्थितः सदनुष्ठानः, दुःप्रस्थितो ह्यात्मा समस्तदुःखहेतुर्वेतरण्यादिरूपः, सुप्रस्थितश्च सकलसुखहेतुरिति कामधेन्वादिकल्पः, दीक्षायामेव सुप्रस्थितत्वादात्मनोऽन्येषां च योगक्षेमकृत्त्वान्नाथत्वं, लब्धलाभो योगः, स स्वस्य रत्नत्रयाप्त्या, लब्धस्य परिरक्षणं क्षेमः, स स्वस्य प्रमादरोधेन, एवमन्येष्वपि धर्माप्तिस्थैर्यकृत्त्वाभ्यां योगक्षेमकृतिः ॥३७॥
पुनरन्यथाऽनाथत्वमाह
इमा हु अण्णा वि अणाहया निवा, तमेगचित्तो णिहुओ सुणेहि। णियंठधम्मं लहिऊण वी जहा, सीयंति एगे बहुकातरा नरा ॥३८॥
___Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org