________________
विंशतितमं महानिर्ग्रन्थीयाध्ययनम्
३२१ ___व्याख्या-पुनः सा बाला अन्नमशनं, पानं शर्करोदकादिकं, च पुनः स्नानं कुङ्कुमादिपानीयैः शरीरसिञ्चनं, च पुनर्गन्धमाल्यं, गन्धं सुगन्धिगोशीर्षादिशरीररार्चनं, माल्यं ग्रथितसुरभिकुसुमादिमालारोपणं, विलेपनं लक्षपाकतैलाद्यभ्यङ्ग, मया ज्ञातं वा अज्ञातं स्वभावेनैव, अनेन सद्भावसारता गदिता, नैवोपभुङ्क्ते, मदुःखार्त्तया सर्वाण्यपि भोगाङ्गानि त्यक्तानीति भावः ॥२९॥
खणं पि मे महाराय, पासओ ण य उट्ठइ ।
ण य मे दुक्खा विमोएइ, एसा मज्झ अणाहया ॥३०॥ व्याख्या-पुनर्हे महाराज ! सा बाला मम पाश्र्वात् क्षणमपि नोत्तिष्ठति नापयाति, सदा सन्निहितैवास्ते, अनेन तस्या अतिवत्सलत्वं गदितं, तथापि सा मां दुःखान्न विमोचयति, एषापि ममानाथता ज्ञेया ॥३०||
तओ हं एवमाहंसु, दुक्खमा हु पुणो पुणो ।
वेयणा अणुभविउं जे, संसारंमि अणंतए ॥३१॥ व्याख्या-तत इति रोगाऽप्रतिकार्यताऽनन्तरं अहमेवं वक्ष्यमाणमुक्तवान् । किमुक्तवान् ? हु निश्चयन या वेदना अक्षिरोगप्रमुखा अनुभवितुं दुःक्षमा भोक्तुमसमर्थास्ता वेदनाः संसारे पुनः पुनर्भुक्तेति शेषः, वेद्यते दुःखमनयेति वेदना, ता वेदना दुःखेन क्षम्यन्ते सह्यन्ते इति दुःक्षमा दुस्सहाः, कीदृशे संसारे ? अनन्तके अपारे ॥३१॥
सयं च जइ मुच्चेज्जा, वेयणा विउला इओ ।
खंतो दंतो निरारंभो, पव्वए अणगारियं ॥३२॥ व्याख्या-अहं किमवादिषं ? यदि सकृदेकवारमपि [इतः इत्यनुभूयमानायाः] अस्या विपुलाया विस्तीर्णाया वेदनाया अहं विमुच्ये तदाहं क्षान्तो भूत्वा, पुनर्दान्तो जितेन्द्रियो भूत्वा निरारम्भः सन् अनगारत्वं साधुत्वं प्रव्रजामि दीक्षां गृह्णामीति भावः, येन संसारोच्छित्त्या वेदनाया अभाव एव स्यात् ॥३२॥
एवं च चिंतइत्ताणं, पसुत्तो मि नराहिवा ।
परिवत्तंति राईए, वेयणा मे खयं गया ॥३३॥ व्याख्या एवं च विचिन्त्य नराधिप ! रात्रौ यावदहं सुप्तोऽस्मि, तावत्तस्यामेव रात्रौ प्रवर्त्तमानायामतिक्रामन्त्यां 'मे' मम वेदनाः क्षयं गता उपशान्ता इति ॥३३॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org