________________
३२०
अन्यच्च
पिया मे सव्वसारं पि, दिज्जा हि मम कारणा ।
णय दुक्खा विमोयंति, एसा मज्झ अणाया ॥२४॥
श्रीउत्तराध्ययनदीपिकाटीका - २
न
व्याख्या -पिता मे सर्वसारं निःशेषप्रधानवस्तुरूपमपि मम कारणाय दद्यात्, चैवमादरवानपि स मां दुःखाद्विमोचयति, वचनव्यत्ययः, सर्वत्र ज्ञेयः, एषा मम अनाथता ज्ञेया ॥ २४ ॥
माया वि मे महाराय, पुत्तसोगदुहट्टिया ।
न य दुक्खा विमोयंति, एसा मज्झ अणाहया ॥ २५ ॥
व्याख्या–हे महाराज ! मातापि मे पुत्रशोकदुःखार्त्ता पुत्रशोकदुःखार्दिता वा न मां दुःखाद्विमोचयति, एषा ममानाथता ॥२५॥
भायरो मे महाराय, सगा जेट्टकणिट्ठगा ।
नय मे दुक्खा विमोयंति, एसा मज्झ अणाहा ॥ २६ ॥
व्याख्या- हे महाराज ! 'सगा' लोकरूढितः सोदर्याः स्वका वा आत्मीया ज्येष्ठा कनिष्ठा लघवो मे भ्रातरोऽपि मां दुखान्न विमोचयन्ति, एषा ममानाथा ||२६|| भगिणी मे महाराय, सगा जेटुकणिट्टिगा ।
न य मे दुक्खा विमोयंति, एसा मज्झ अणाया ॥२७॥ व्याख्या - हे महाराज ! स्वका एकमातृजा ज्येष्ठाः कनिष्ठाश्च मे भगिन्यो मां दुःखान्न विमोचयन्ति, एषापि ममानथता ज्ञेया ||२७||
भारिया मे महाराय, अणुरत्ता अणुव्वया । अंसुपुण्णेहिं नयणेहिं, उरं मे परिसिंचाई ॥ २८ ॥
व्याख्या - हे महाराज ! मे भार्या अनुरक्ता अनुरागवती, अनुव्रता पतिव्रता वयोऽनुरूपा वा, (पाठान्तरे- 'अणुत्तरमणुव्वया' - म: अलाक्षणिकः, अनुत्तराऽतिप्रधाना) तथा सा अश्रुपूर्णाभ्यां नयनाभ्यां मे उरो वक्षः परिसिञ्चति ||२८||
अन्नं पाणं च न्हाणं च, गंधमल्लविलेवणं ।
मए णायमणायं वा सा बाला णोवभुंजइ ॥ २९ ॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org