SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ विंशतितमं महानिर्ग्रन्थीयाध्ययनम् व्याख्या-हे महाराज ! प्रथमे वयसि यौवने अतुल्या मेऽक्षिवेदना वा ऽस्थिवेदना अभूत् , तथा हे पार्थिव ! सर्वगात्रेषु मे विपुलो दाहोऽभूत् ॥१९॥ सत्थं जहा परमतिक्खं, सरीरविवरंतरे । पविसिज्ज रिवू कुद्धो, एवं मे अच्छिवेयणा ॥२०॥ व्याख्या-शरीरविवराणि कर्णरन्ध्रादीनि तेषामन्तरे मध्ये शरीरविवरान्तरे रिपुः क्रुद्ध सन् यथा परमतीक्ष्णमत्यन्तनिसितं शस्त्रं 'पविसिज्ज'त्ति प्रवेशयेत् , शरीरविवरग्रहणमपि अतिसौकुमार्यात् (पाठान्तर-'आविलिज्ज' आपीडयेत् गाढमवगाहयेत्) एवं पीड्यमानस्य मे शस्त्रवदक्षिवेदना अत्यन्तबाधाविधायिनी जाता ॥२०॥ तियं मे अंतरिच्छं च, उत्तमंगं च भिंदइ । इंदासणिसमा घोरा, वेयणा परमदारुणा ॥२१॥ व्याख्या-त्रिकं कटिभागं मे, अन्तरा मध्ये इच्छां वस्त्वभिलाषां भोजनपानात्मिकां, च पुनरुत्तमाकं मस्तकं परमदारुणा अतीवदुःखोत्पादिका वेदना भिनत्ति पीडयति । कीदृशा वेदना ? इन्द्राशनिसमा घोरा, इन्द्रस्याशनिवजं तत्समा अतिदाहकत्वाद् घोरा परेषामपि भयोत्पादिकेति ॥२१॥ उवट्ठिया मे आयरिया, विज्जामंततिगिच्छगा । अबीया सत्थकुसला, मंतमूलविसारया ॥२२॥ व्याख्या-उपस्थिता वेदनावारणं प्रत्युद्यता जाता मे आचार्या वैद्या विद्यामन्त्रचिकित्सका विद्यामन्त्राभ्यां व्याधिचिकित्सकाः, अद्वितीया अनन्यसाधारणाः, शास्त्रेषु शस्त्रेषु वा कुशलाः (पाठान्तरे–'नानासत्थकुसल'त्ति विविधशास्त्रकुशलाः) मन्त्रमूलविशारदाः, मन्त्राणि देवाधिष्ठितानि, मूलानि जटिकारूपाणि, तत्र विचक्षणास्तेषां गुणज्ञा इति ॥२२॥ ते मे तिगिच्छं कुव्वंति, चाउप्पायं जहाहियं । न मे दुक्खा विमोयंति, एसा मज्झ अणाहया ॥२३॥ व्याख्या-ते वैद्या मे चिकित्सां कर्वन्ति, चतुःपादां भिषग्भेषजातुरप्रतिचारिकात्मकां, यथाहितां हिताऽनतिक्रमेण, यथाधीतां वा गुरुसम्प्रदायागतवमनविरेचकादिरूपां, न च 'मे' मां ते दुःखाद्रोगोद्भवाऽसाताद्विमोचयन्ति, एषा ममाऽनाथता ज्ञेयेति ॥२३॥ _Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002569
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorJaykirtisuri
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy