________________
३१८
श्रीउत्तराध्ययनदीपिकाटीका-२ नगरमप्यस्ति, च पुनरन्तःपुरं राज्ञीसमूहोऽपि विद्यते, एवंविधोऽहं मानुष्यान् भोगान् विषयान् भुनज्मि, च पुनर्मे आज्ञेश्वरत्वं, आज्ञाऽस्खलितशासनात्मिका, ऐश्वर्यं च समृद्धिर्मे वर्त्तते, यद्वा आज्ञैश्वर्यं प्रभुत्वं वर्त्तते ॥१४॥
एरिसे संपयग्गंमि, सव्वकामसमप्पिए ।
कहं अणाहो हवइ, मा हु भंते ते मुसं वए ॥१५॥ व्याख्या-ईदृशे सम्पदग्रे सम्पत्प्रकर्षे सति (पाठान्तरे-संपयायंमि, तत्र सम्पदामाये लाभे) प्राकृतत्वात् समर्पितसर्वकामे कथमनाथः, पुरुषव्यत्ययाद्भवामि ? हुर्यस्मादर्थे यत एवं तस्मान्मा भदन्त ! मृषा वादी: ! ॥१५॥
मुनिराह__ण तुमं जाणेसि अणाहस्स, अत्थं पुत्थं व पत्थिवा ।
जहा अणाहो हवइ, सणाहो वा नराहिवा ॥१६॥ व्याख्या-हे पार्थिव ! हे राजन् ! त्वमनाथस्याऽनाथशब्दस्यार्थं प्रोत्थं च प्रकर्षणोत्थमुत्थानमुत्पत्ति, केनाभिप्रायेणाऽनाथशब्दो मयोक्त इति त्वं न जानीषे, अत एव हे नराधिप ! यथा त्वं अनाथो भवसि अथवा सनाथो भवसि ? तत्त्वं न जानीषे ॥१६।।
सुणेहि मे महाराय अव्वखित्तेण चेयसा ।
जहा अणाहो हवइ, जहा मे य पवत्तियं ॥१७॥ व्याख्या-हे महाराज 'मे' मम कथयतः सतस्त्वमव्याक्षिप्तेन स्थिरेण चेतसा शृणु ! यथा अनाथो नाथरहितो भवति, यथा 'मे' मम अनाथत्वं प्रवत्तितं, अथवा 'मे य'ति एतत् अनाथत्वं [मया च] प्रवर्तितं तथा त्वं शृणु ! इत्यनेन स्वकथाया उट्टङ्कः कृतः, अथवाऽनेनोत्थानमुक्तम् ॥१७॥
कोसंबी णाम पुरी, पुराणपुरभेयणी ।
तत्थ आसी पिया मज्झं, पभूयधणसंचओ ॥१८॥ व्याख्या हे राजन् ! कौशाम्बीनाम्नी पुरी आसीत् , पुराणपुराणि भिनत्ति स्वगुणैरसमानत्वात् भेदेन करोतीति पुराणपुरभेदिनी, प्रधाननगरीत्यर्थः, तत्र मम पितासीत् , प्रभूतधनसञ्चयो नाम्ना गुणेन च ॥१८॥
पढमे वए महाराय, अतुला मे अच्छिवेयणा । अहोत्था विउलो दाहो, सव्वगत्तेसु पत्थिवा ॥१९॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org