SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ विंशतितमं महानिर्ग्रन्थीयाध्ययनम् तर सो पहसिओ राया, सेणिओ मगहाहिवो । एवं ते इड्डिमंतस्स कहं नाहो न विज्जए ॥१०॥ , व्याख्या - ततोऽनन्तरमेवं मुनिनोक्तः स प्रहसितो विस्मितो राजा श्रेणिको मगधाधिपः प्राहेत्यध्याहारः, एवं दृश्यमानप्रकारेण 'ते' तव ऋद्धिमतो विस्मयनीयवर्णादिसम्पत्तिमतः कथं नाथो न विद्यते ? वर्त्तमाननिर्देशः सर्वत्र तत्कालापेक्षया ज्ञेयः ॥ १० ॥ होम णाहो भयंताणं, भोगे भुंजाहि संजया । मित्तनाइपरिवुडो, माणुस्सं खु सुदुल्लाहं ॥११॥ व्याख्या-हे मुने ! यद्यनाथतैव दीक्षाहेतुस्ततो भवाम्यहं नाथो भदन्तानां पूज्यानां, अतस्त्वं मयि नाथे सति भोगान् भुङ्क्ष्व ! मित्रज्ञातिपरिवृतः सन् खलु निश्चयेन मानुष्यं मनुष्यजन्मत्वं सुदुर्लभं वर्त्तते ॥११॥ मुनिः प्राह अप्पणा व अणाहो सि, सेणिया मगहाहिवा । अप्पणा अणाहो संतो, कस्स नाहो भविस्ससि ॥१२॥ ܕ व्याख्या - हे राजन् ! श्रेणिक मगधाधिप ! त्वमात्मनाप्यनाथोऽसि, आत्मनानाथस्य सतस्तवापि अनाथत्वं, तदा त्वमपरस्य कस्य (पाठान्तरे - 'कहं' कथं ) नाथो भविष्यसि ? ॥ १२॥ एवं वृत्तो नरिंदो सो, सुसंभंतो सुविहिओ । वयणं अस्सुयपुव्वं, साहुणा विम्हयं णिओ ॥१३॥ ३१७ व्याख्या- एवमुक्तो मुनिनेति, स नरेन्द्रः श्रेणिकः सुसम्भ्रान्तोऽत्यन्तं व्याकुलतां प्राप्तः, सुविस्मितः प्रागपि तद्रूपादिविषयविस्मयोपेतः पुनरपि तद्वचनश्रवणाद्विस्मयं प्राप्तः, यतस्तद्वचनमश्रुतपूर्वं पूर्वं केनापि न श्रावितमेवंविधमभूत् । एवं स राजा साधुना विस्मयं नीत आश्चर्य प्रापित इति ॥ १३॥ 7 विस्मितश्च स प्राह Jain Education International 2010_02 आसा हत्थी मणुस्सा मे, पुरं अंतेरं च मे 1 भुंजामि माणुसे भोए, आणाइस्सरियं च मे ॥१४॥ व्याख्या- अश्वा मे सन्ति, हस्तिनः सन्ति, मनुष्याः सुभटसेवकाद्याः सन्ति, पुरं For Private & Personal Use Only www.jainelibrary.org
SR No.002569
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorJaykirtisuri
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy