________________
३१६
श्रीउत्तराध्ययनदीपिकाटीका-२ तस्स रूवं तु पासित्ता, राइणो तंमि संजए ।
अच्चंतपरमो आसी, अउलो रूवविम्हओ ॥५॥ व्याख्या-तस्य साधोस्तु पुना रूपं दृष्ट्वा राज्ञः श्रेणिकस्य तस्मिन् संयते मुनौ अत्यन्तपरमोऽतिशयोत्कृष्टोऽतुलो निरुपमोऽनन्यसदृशो रूपविषयो विस्मयोऽभूत् ॥५॥
अहो वन्नो अहो रूवं, अहो अज्जस्स सोमया । __ अहो खंती अहो मुत्ती, अहो भोगे असंगया ॥६॥
व्याख्या-अहो अहो सर्वत्राश्चर्ये, वर्णः सुस्निग्धो गौरतादिः, रूपमाकारः, आर्यस्य साधोः सौम्यता चन्द्रस्येव दृष्टुरानन्ददायिनी, क्षान्तिः क्षमा, मुक्तिनिर्लोभता, भोगेषु असङ्गता विषयनि:स्पृहता ॥६॥
तस्स पाए उ वंदित्ता, काऊण य पयाहिणं ।
नाइदूरमणासन्ने, पंजली पडिपुच्छइ ॥७॥ व्याख्या-तस्य साधोः पादौ वन्दित्वा, पुनः प्रदक्षिणां च कृत्वा, पादवन्दनादनु प्रदक्षिणोक्तिः "पूज्यानामालोक एव प्रणामः कार्य" इति रीत्या ज्ञेया, ततो नातिदूरं नात्यासन्नः सन् स प्राञ्जलिः परिपृच्छति प्रश्नं करोतीति ॥७॥
तरुणो सि अज्जो पव्वईओ, भोगकालंमि संजया ।
उवट्ठिओ सि सामन्ने, एयमटुं सुणामि ता ॥८॥ व्याख्या हे आर्य ! त्वं तरुणोऽसि युवासि, अत एव हे संयत ! भोगकाले प्रव्रजितो गृहीतदीक्षोऽसि, उपस्थितश्चासि महादरेण श्रामण्ये, एनमर्थं निमित्तं, येनार्थेन त्वमीदृश्यमप्यवस्थायां प्रव्रजितस्तत्कारणं शृणोमि, 'ता' इति तावत् पश्चात्तु यत्त्वमन्यदपि वदिष्यसि तदपि श्रोष्यामीति भावः ॥८॥ मुनिराह
अणाहो मि महाराय, नाहो मज्झ न विज्जइ ।
अणुकंपगं सुहिं वावि, कंची णाभिसमेमहं ॥९॥ व्याख्या-अनाथोऽस्वामिकोऽस्मि महाराज ! नाथो योगक्षेमकृत् 'मे' मम न विद्यते, तथा आर्षत्वादनुकम्पको यो मामनुकम्पते, 'सुहि'ति सुद्धा नास्ति, नाभिसमेमि अहं, न केनचिदनुकम्पकेन सुहृदा वा सङ्गतोऽहमस्मीति तारुण्येऽप्यहं दीक्षितोऽस्मीति ॥९॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org