SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ विंशतितमं महानिर्ग्रन्थीयाध्ययनम् ३१५ जघन्या उत्कृष्टाः कोटिपृथुक्त्वं, इह च जघन्यतः, उत्कृष्टतस्तु पृथक्त्वमेवोच्यते । तत्र तज्जघन्यं लघुतरं, उत्कृष्टं च बृहत्तरमिति ज्ञेयम् ।। द्वारम् ३६॥ । [खलु महानिग्गंथाण अप्पबहुं ति] खलु वाक्यालङ्कारे, महानिर्ग्रन्थापेक्षयैषामेव प्रशस्यमुनीनामल्पबहुत्वं वाच्यं । तत्र सर्वस्तोका निर्ग्रन्थाः, ततः पुलाकाः सङ्ख्येयगुणाः, तेभ्यः स्नातकाः, स्नातकेभ्यो बकुशाः, तेभ्यः कषायकुशीलाः ॥ इति ३७॥ नियुक्तिद्वारगाथात्रयार्थः।। अथ सूत्रम्सिद्धाणं नमो किच्चा, संजयाणं च भावओ । अत्थधम्मगइं तच्चं, अणुसद्धिं सुणेह मे ॥१॥ व्याख्या-'सिद्धाणं' सिद्धेभ्योऽर्हदादिसिद्धेभ्यो नमो नमस्कारं कृत्वा, संयतेभ्य आचार्योपाध्यायसर्वसाधुभ्यो भावतो भक्त्याः, अर्थ्यते हितार्थिभिरित्यर्थः, स चासौ धर्मश्चार्थधर्मस्तस्य गतिर्ज्ञानं यस्यां सा, तामर्थधर्मगति, तथ्यां सत्यां अनुशिष्टिं शिक्षा शृणुत ! 'मे' मया कथ्यमानां, स्थविरवचनमेतत् ॥१॥ धर्मकथानुयोगत्वादुत्तराध्ययनस्य धर्मकथाख्यानेन शिक्षामाह पभूयरयणो राया, सेणिओ मगहाहिवो । विहारजत्तं णिज्जाओ मंडिकुच्छिसि चेइए ॥२॥ व्याख्या-'सूत्रसप्तकं सुगम' प्रभूतानि रत्नानि मरकतादीनि, प्रवरगजाश्वादिरूपाणि वा यस्यासौ प्रभूतरत्नः, तथा मगधाधिपः श्रेणिको नामा राजा, सुब्व्यत्ययात् विहारयात्रया क्रीडार्थमश्ववाहनिकादिरूपया, निर्यातः पुरात् , मण्डितकुक्षिनाम्नि चैत्ये इत्युद्याने ॥२॥ तदेवोद्यानं व्याख्यायति नाणादुमलयाइण्णं, नाणापक्खिनिसेवियं । नाणाकुसुमसंछन्नं, उज्जाणं नंदणोवमं ॥३॥ व्याख्या-नानाद्रुमलताकीर्णं, नानापक्षिनिषेवितं, नानाकुसुमैः सञ्छन्नं पूर्ण तन्मण्डितकुक्ष्युद्यानं नन्दनवनोपममासीत् ||३|| तत्थ सो पासई साहुं, संजयं सुसमाहियं । निसन्नं रुक्खमूलंमि, सुकुमालं सुहोइयं ॥४॥ व्याख्या-तत्र स श्रेणिकराजा संयतं सुसमाधियुतं, वृक्षमूले निष्ण्णमुपविष्टं, सुकुमालं, सुखोचितं सुभोचितं वा साधुमेकं पश्यति ॥४।। _Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002569
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorJaykirtisuri
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy