SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तराध्ययनदीपिकाटीका - २ 'काले'त्ति, पुलाको जघन्य उत्कृष्टश्चान्तमुहूर्तं यावद्भवति, बकुशप्रतिसेवककषायकुशीला जघन्येनैकं समयं, उत्कृष्टेन देशोनां पूर्वकोटिं, निर्ग्रन्थो जघन्यत एकं समयं, उत्कृष्टेनान्तर्मुहूर्त्तं, अन्ये तु निर्ग्रन्थोऽपि जघन्यत उत्कृष्टश्चान्तर्मुहूर्त्तमेव, स्नातको जघन्येनान्तर्मुहूर्त्तमुत्कृष्टतो देशोनां पूर्वकोटिमेकमेव जीवापेक्षया, बहुजीवापेक्षया तु पुलाकनिर्ग्रन्थौ जघन्यत एकं समयं, उत्कृष्टेनान्तर्मुहूर्तं । बकुशः सर्वार्द्धम्, एवं प्रतिसेवककषायकुशीलस्नातका अपि ॥ द्वारम् ३०|| ३१४ 'अन्तरे' त्ति, पुलाकादीनां चतुर्णामन्तरं जघन्येनान्तर्मुहूर्तं उत्कृष्टतोऽनन्तं कालं, स च कालतोऽनन्ता उत्सर्पिण्यवसर्पिण्यः, क्षेत्रतोऽपार्द्धपुद्गलपरावर्त्तो देशोनः, स्नातकस्य नास्त्यन्तरमित्थमेकं प्रति, बहूनां तु पुलाकनिर्ग्रन्थानां जघन्येनैकं समयं, उत्कृष्टेन पुलाकस्य सङ्ख्येयानि वर्षाणि, निर्ग्रन्थस्य षण्मासाः शेषाणां नान्तरम् ॥ द्वारम् ३१॥ · 'समुग्घाय'त्ति, पुलाकस्य वेदनाकषायमारणान्तिकसमुद्धातास्त्रयो, बकुशप्रतिसेवकयोस्त एव वैक्रियतेजसान्विताः पञ्च, कषायकुशीलस्य तु त एव आहारकसहिताः षट्, निर्ग्रन्थस्यैकोऽपि [ नास्ति ] स्नातकस्य केवलिसमुद्धात एकः ॥ द्वारम् ३२|| 'खेत्त’त्ति, पुलाकादयश्चत्वारो लोकस्याऽसङ्ख्येयभागे न सङ्ख्येयभागे न वा सङ्ख्येयेष्वसङ्ख्येयेषु वा भागेषु, नापि सर्वलोके, स्नातकोऽसङ्ख्येयभागेषु सर्वलोके वा, न शेषेषु । चूर्णिकारास्त्वेवमाहुः -“सङ्ख्येयभागादिषु सर्वेषु भवति " ॥ द्वारम् ३३|| 'फुसणा य'त्ति, स्पर्शना च क्षेत्रवद् ज्ञेया ॥ द्वारम् ३४॥ 'भावे 'त्ति, पुलाकादयस्त्रयः क्षायोपशमिके भावे, निर्ग्रन्थ औपशमिके क्षायिके वा स्नातकः क्षायिकः, इह तु पुलाकादयो निर्ग्रन्थाः, निर्ग्रन्थत्वं तु चारित्रनिमित्तमिति तद्धेतुभूतस्यैव भावस्य विवक्षितत्वादित्थमुक्तं, अन्यथा नृत्वाद्यौदयिकादिभावे स्यात् ॥ द्वारम् ३५॥ 'परिमाणे 'त्ति, पुलाकाः प्रपद्यमानाः कदाचिन्न स्युस्तदा जघन्येनैको द्वौ वा त्रयो वा, उत्कृष्टतः शतपृथक्त्वं, पूर्वप्रपन्नाश्चेत् स्युस्तदा जघन्येन तथैव, उत्कृष्टतः सहस्रपृथक्त्वं, बकुशाः प्रपद्यमानकाश्चेत् स्युस्तदा जघन्येनोत्कृष्टेन च पुलाकवद्वाच्याः, पूर्वप्रतिपन्नास्तु जघन्येनोत्कृष्टतश्च कोटिशतपृथक्त्वं, एवं प्रतिसेवका अपि कषायकुशीला प्रपद्यमाना जघन्या उत्कृष्टाश्च, जघन्येनोत्कृष्टेन च पुलाकवद्वाच्याः, पूर्वप्रतिपन्नास्तु जघन्येनोत्कृष्टतश्च कोटिशतपृथक्त्वं, एवं प्रतिसेवका अपि । कषायकुशीलाः प्रपद्यमाना जघन्या उत्कृष्टाश्च सहस्रपृथक्त्वं, पूर्वप्रपन्ना जघन्या उत्कृष्टाः कोटिसहस्रपृथक्त्वं, निर्ग्रन्थाः प्रपद्यमाना जघन्या एको द्वौ त्रयो वा, उत्कृष्टा द्विषष्ट्यधिकं शतं, तत्राष्टोत्तरशतक्षपकाः, चतुःपञ्चाशदुपशमकाः, पूर्वप्रपन्नकाश्चेत् स्युस्तदा Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002569
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorJaykirtisuri
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy