________________
विंशतितमं महानिर्ग्रन्थीयाध्ययनम्
३१३
वेद्यायुर्मोहवर्जाः, पञ्च वा, निर्ग्रन्थोऽप्येता एव पञ्च, [द्वे वा नामगोत्राख्ये] स्नातकस्त्वेते एव द्वे [अनुदीरको वा] ॥ द्वारम् २४॥
'डेवसंपजहणे 'त्ति उपसम्पदनं, उपसम्पदन्यरूपप्रतिपत्तिः, सा स्वरूपत्यागेनोपसम्पत्, तत्र पुलाकः पुलाकतां त्यजन् कषायकुशीलत्वमसंयमं चोपसम्पद्यते, एवं बकुशो बकुशकतां त्यजन् प्रतिसेवकत्वं कषायकुशीलत्वं संयमासंयमं चोपसम्पद्यते, प्रतिसेवकः प्रतिसेवकत्वं त्यजन् बाकुश्यं कषायकुशीलत्वं संयमासंयमं चोपसम्पद्यते । कषायकुशीलः कषायकुशीलत्वं त्यजन् पुलाकं बकुशप्रतिसेवकं चोपसम्पद्यते । पुलाकादित्रयं निर्ग्रन्थत्वमसंयमं संयमं चोपसम्पद्यते । निर्ग्रन्थो निर्ग्रन्थत्वं त्यजन् कषायकुशीलत्वं स्नातकमसंयमं चोपसम्पद्यते । स्नातकः स्नातकत्वं त्यजन् सिद्धिगतिमुपसम्पद्यते ॥ द्वारम् २५||
'सन्ने'ति सज्ञा, तत्र पुलाकनिर्ग्रन्थस्नातका नोसज्ञोपयुक्ताः बकुशप्रतिसेवककषायकुशीलाः सज्ञेोपयुक्ता नोसज्ञेोपयुक्ताश्च ॥ द्वारम् २६॥
'आहारे 'त्ति, पुलाकादयो निर्ग्रन्थावसाना आहारका एव । स्नातकस्त्वाहारकोऽनाहारको वा ॥ द्वारम् २७||
तथा 'भव'त्ति, पुलाकादयश्चत्वारो जघन्यत एकभवग्रहणं, उत्कृष्टतस्तु पुलाकनिर्ग्रन्थयोस्त्रीणि, बकुशप्रतिसेवककषायकुशीलानामष्टौ स्नातकस्यैकम् ॥ द्वारम् २८॥
'आगारिसे 'त्ति, आकर्षणमाकर्ष:, स चेह सर्वविरतेर्ग्रहणमोक्षौ, पुलाकादीनां चतुर्णां जघन्येन द्वौ, उत्कृष्टेन पुलाकस्य सप्त, बकुशस्य कुशीलद्वयस्य च सहस्रशो, निर्ग्रन्थस्य पञ्च, स्नातकस्य तु नास्ति ॥ द्वारम् २९॥
१. 'उवसंपजहण' त्ति उवसंपदनम् उपसम्पद्-अन्यरूपप्रतिपत्तिः, सा च हानं च स्वरूपपरित्याग उपसम्पद्धानं, तत्र पुलाकः पुलाकतां त्यजंस्तां परित्यजति कषाय कुशीलत्वमसंयमं वोपसम्पद्यते, कोऽभिप्रायः ? न रूपान्तरापत्तिं विना पूर्वरूपपरित्यागो नापि तत्परित्यागं विना तदापत्तिः, कथञ्चिन्नित्यानित्यरूपत्वाद्वस्तुनः एवं सर्वत्र भावनीयं, बकुशोऽपि बकुशतां त्यजन् तां परित्यजति प्रतिसेवकत्वं केषायकुशलत्वसंयमं संयमासंयमं वोपसम्पद्यते, प्रतिसेवनाकुशीलः प्रतिसेवनाकुशलीत्वं त्यजंस्तत्परित्यजति बकुशत्वं कषायकुशीलत्वमसंयमं संयमासंयमं वोपसम्पद्यते, प्रतिसेवनाकुशील: प्रतिसेवनाकुशीलत्वं त्यजंस्तत्परित्यजति बकुशस्तं कषायकुशीलत्वमयंसमं संयमासंयम वोपसम्पद्यत, कषायकुशीलः कषायकुशीलत्वं त्यजंस्तत्परित्यजति पुलाकादित्रयं निर्ग्रन्थत्वमसंयमं संयमासंयमं वोपसम्पद्यते, निर्ग्रन्थो निर्ग्रन्थत्वं त्यजंस्तत्परित्यजति कषायकुशीलत्वं स्नातकत्वमसंयमं वोपसम्पद्यते, स्नातकः स्नातकत्वं त्यजंस्तत्परित्यजति सिद्धिगतिमुपसम्पद्यते ॥ २५ ॥ द्वारम् ॥ [उत्त. नि. गा. ४२४ वृत्तौ ]
सम्पा.
Jain Education International 2010_02
و
1
For Private & Personal Use Only
www.jainelibrary.org