________________
३१२
श्रीउत्तराध्ययनदीपिकाटीका-२ काभ्यामनन्तगुणहीनः, एवं प्रतिसेवककषायकुशीलयोरपि परस्थानसन्निकर्षो वाच्यः, नवरं कषायकुशीलः पुलाकापेक्षया षट्स्थानपतितः, निर्ग्रन्थस्नातकपुलाकापेक्षया अनन्तगुणाधिकः ॥ द्वारम् १६॥
_ 'जोग'त्ति, पुलाकादीनां निर्ग्रन्थान्तानां मनोवाक्कायास्त्रयोऽपि योगाः स्युः, स्नातक: सयोगोऽयोगो वा स्यात् ॥ द्वारम् १७॥
'उवओग'त्ति, पुलाकाद्याश्चत्वारो मतिश्रुतावधिमनःपर्यायभेदतश्चतुर्धाभेदे साकारोपयोगे चक्षुरचक्षुरवधिभेदेऽनाकारोपयोगे स्युः, स्नातकः केवलज्ञानदर्शनयोः ॥ द्वारम् १८॥
'कसाय'त्ति, पुलाकबकुशप्रतिसेवकाः सञ्चलनकषायैश्चतुःकषायाः, कषायकुशीलश्चतुर्पु सञ्चलनक्रोधादिषु द्वयोरेकस्मिन् वा स्यात् , निर्ग्रन्थोऽकषायः, स चोपशमे क्षये वा, एवं स्नातकः क्षीणकषाय एव ॥ द्वारम् १९।।।
'लेस'त्ति १[पुलाकबकुशप्रतिसेवकाः पीतपद्मशुक्लाभिधानासु तिसृषु लेश्यासु कषायकुशीलः षट्स्वपि निर्ग्रन्थः शुक्ललेश्यायां, स्नातकस्तस्यामेवातिशुद्धायाम् ॥ द्वारम् २०]
_ 'परिणामे'त्ति, पुलाकबकुशप्रतिसेवककषायकुशीला वर्द्धमाने हीयमाने च स्थिते वा परिणामे स्युः, निर्ग्रन्थस्नातकौ वा वर्द्धमानावस्थितपरिणामावेव, तत्र च पुलाकादयस्तु त्रयो वर्द्धमानपरिणामे जघन्येनैकसमायनन्तरं कषायकुशीलत्वादिगमनेन मरणेन वा, लब्धिपुलाकस्य तु मरणं नास्ति, उत्कृष्टेनान्तर्मुहूर्तमेवं हीयमानेऽपि, अवस्थितौ तु जघन्यतः समयमुत्कृष्टेन सप्त समयात् , निर्ग्रन्थो जघन्यत उत्कृष्टश्चान्तर्मुहूर्त, वर्द्धमाने तु जघन्येनैकं समयमुत्कृष्टेनान्तर्मुहूर्त, अन्ये त्वस्योत्कृष्टतोऽवस्थितपरिणामे सप्तसमयानाहुः, स्नातको जघन्येन उत्कृष्टेन च वर्द्धमानपरिणामे अन्तर्मुहूर्तमुत्कृष्टेन देशोनां पूर्वकोटीं ॥ द्वारम् २१।।
_ 'बंधण'त्ति, कर्मबन्धनं, तत्रायुर्वर्जाः सप्त कर्मप्रकृती: पुलाको बध्नाति, बकुशप्रतिसेवकौ तु सप्त अष्टौ वा, आयुषोऽपि तर्योर्बन्धसम्भवात् , कषायकुशीलोऽष्टौ सप्त षट् वा, आयुर्मोहवर्जाः, निर्ग्रन्थस्त्वेकमेवं सातं स्नातकोऽप्येवमबन्धको वा ॥ द्वारम् २२।।
___ 'उदए'त्ति, कर्मोदयः, तत्र पुलाकबकुशप्रतिसेवककषायकुशीला अष्टविधं कर्मवेदयन्ति, निर्ग्रन्थो मोहवर्जाः सप्त, स्नातको वेद्यायुर्नामगोत्राख्याश्चतस्रः ॥ द्वारम् २३॥
'कर्मोदीरणे'त्ति, पुलाकश्चायुर्वेदनीयवर्जाः षट् कर्मप्रकृतीरुदीरयति, बकुशप्रतिसेवकावष्टौ, आयुर्वर्जाः सप्त, षट् आयुर्वेदनीयवर्जाः, कषायकुशीलोऽप्येवमष्टौ सप्त षट्
१. 'लेस'त्ति तदनतर: पाठो पतितः [ ] कौंसमध्ये पाठो बृहट्टीकातः पूरितोऽस्ति । सम्पा. ॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org