________________
विंशतितमं महानिर्ग्रन्थीयाध्ययनम्
३११ भरतैरवतेषु यथा सम्भवं, संहरणतो यथोक्तादन्यथापि काले स्युः, प्रज्ञप्तौ तु जन्मनः सद्भावतश्च पुलाकोऽवसपिण्यां दुःषमदुःषमाकाले दुःषमसुषमाकाले च, न तु शेषेषु, उत्सपिण्यां जन्मतो दुःषमायां दुःषमसुषमायां सुषमदुःषमायां वा, सद्भावतश्चः दुःषमसुषमायां सुषमदुःषमायां च भरतैरवतयोः, विदेहे तु चतुर्थप्रतिभागे पञ्चापि सर्वदैव स्युः, यथासम्भवं संहरणतो न कदाचिन्निषिद्ध्यन्ते, तत्पुलाकस्य नास्ति, स्नातकादीनां तु पूर्वसंहृतत्वेन तत्सम्भवः, उक्तं हि-"पुलाकलद्धीए वट्टमाणो ण सक्केज्जइ उवसंहरिलं, तहा सिणायाणं जो संहरणादिसंभवो सो पुव्वोवसंहरियाणं जओ केवलियाइणो नोवसंहरिज्जंति" [ ] ॥ द्वारम् १२॥ ।
'गइ'त्ति, गतिः प्रागुक्तैव, नवरमिहाआराधनाया इन्द्रेष्वहमिन्द्रेषु वा जायते, विराधनयेन्द्रादीनामन्यतमेषु, निर्ग्रन्थस्तु अहमिन्द्रेष्वेव ॥ द्वारम् १३।।
'ठिइ'त्ति, पुलाकस्य जघन्येन पल्योपमपृथक्त्वं स्थितिः, उत्कृष्टतोऽष्टादश सागराः, बकुशप्रतिसेवनाकषायकुशीलानां जघन्यतः पल्योपमपृथक्त्वं, उत्कृष्टतो बकुशप्रतिसेवकयो-विंशतिसागराः, कषायकुशीलस्य तु त्रयस्त्रिंशत् , निर्ग्रन्थस्याऽजघन्योत्कृष्टास्त्रयस्त्रिंशदेव ॥ द्वारम् १४॥
___ 'संजमे'त्ति, पुलाकबकुशलप्रतिसेवककषायकुशीलानामसङ्ख्येयानि संयमस्थानानि, निर्ग्रन्थस्नातकयोरजघन्योत्कृष्टमेकमेव संयमस्थानम् ॥ द्वारम् १५।।
___ 'निगासे'त्ति, आर्षत्वात् समो लोपे सन्निकर्षः स्वस्थानपरस्थानापेक्षया तुल्याधिकहीनत्वचिन्तनम् । तत्र च संयमस्थानापेक्षया सर्वस्तोकं निर्ग्रन्थस्य, स्नातकस्य चैकमजघन्योत्कृष्टं संयमस्थानं, पुलाकस्यासङ्ख्येयगुणानि, एवं बकुशप्रतिसेवककषायकुशीलानामपि पूर्वाऽपूर्वापेक्षया असङ्ख्येयगुणानि, एषां च पञ्चानामपि प्रत्येकमनन्ताश्चारित्रपर्यायाः, तथा च चारित्रपर्यायापेक्षया स्वस्थानं सन्निकर्षचिन्तायां पुलाकः पुलाकस्य चारित्रपर्यायैः स्याद्धीनस्तुल्योऽधिको वा भवन्ननन्ताऽसङ्ख्येयभागसङ्ख्याताऽसङ्ख्याताऽनन्तगुणलक्षणेन षट्स्थानकेन स्यात् , एवं बकुशप्रतिसेवककषायकुशीला अपि स्वस्थानहीनाधिकचिन्तायां षट्स्थानपतिता एव, निर्ग्रन्थस्नातकौ तु स्वस्थानचिन्तायां तुल्यावेव । परस्थानसन्निकर्षचिन्तायां पुलाको बकुशप्रतिसेवकनिर्ग्रन्थस्नातकेभ्यश्चारित्रपर्यायैरनन्तगुणहीनो, न तु तुल्योऽधिको वा, कषायकुशीलापेक्षया षट्स्थानपतितः, प्रतिसेवनाकुशीलापेक्षया षट्स्थानपतितः इत्याहुः बकुशः पुलाकापेक्षया चारित्रपर्यायैरनन्तगुणाधिकः, प्रतिसेवककषायकुशीलौ तु प्रति षट्स्थानपतितः, निर्ग्रन्थस्नात
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org