________________
श्रीउत्तराध्ययनदीपिकाटीका - २
'कप्प'त्ति, कल्पः स्थिताऽस्थितकल्पो जिनकल्पादिर्वा, तत्र च पुलाकादयः स्थितकल्पे येऽपि स्युः, तथा पुलाकस्थविरा: स्थविरकल्पे वा, न तु कल्पातीताः, अन्ये तु स्थविरकल्पे एवेति । बकुशप्रतिसेवनाकुशीलौ जिनकल्पे स्थविरकल्पे वा कषायकुशीलः निर्ग्रन्थस्नातकौ जिनस्थविरकल्पयोः, कल्पातीताः प्रत्येकबुद्धा अर्हन्तः ॥ द्वारम् ४ ॥
३१०
'चरित'त्ति, पुलाकबकुशप्रतिसेवनाकु शीलाः सामायिकछेदोपस्थापनीययोः, कषायकुशीलाश्चैतयोः परिहारविशुद्धिसूक्ष्मसम्पराययोश्च निर्ग्रन्थो यथाख्यात एव, एवं स्नातकोऽपि ॥ द्वारम् ५॥
'पडिसेवणे'त्ति, पुलाकः प्रतिसेवको वाऽप्रतिसेवकः, स हि मूलगुणोत्तरगुणानामत्यन्तमविराधनात एव भवति, बकुशोऽपि प्रतिसेवक एव, किन्तूत्तरगुणेष्वेव, दशप्रत्याख्यानेषु प्रतिसेवनाकुशीलः पुलाकवत् कषायकुशीलनिर्ग्रन्थस्नातका अप्रतिसेवकाः ॥ द्वारम् ६॥
,
‘णाणे’त्ति, पुलाकबकुशप्रतिसेवका द्वयोर्ज्ञानयोस्त्रिषु वा, तत्र द्वयोर्मतिश्रुतयोः, त्रिषु मतिश्रुतावधिषु, इह च पुलाकस्य श्रुतं नवपूर्वतृतीयाचारवस्तुत आरभ्य यावन्नवपूर्वाणि पूर्णानि, बकुशजघन्यं श्रुतमट्ठपवयणमायाओ, उत्कृष्टं दशपूर्वाणि, एवं प्रतिसेवकस्यापि । कषायकुशीलयोर्द्वयोस्त्रिषु चतुर्षु वा, तत्र द्वयोर्मतिश्रुतयोः, तत्रोत्कृष्टं चतुर्दशपूर्वाणि, त्रिषु मति श्रुतावधिषु, मतिश्रुतमनः पर्यायेषु वा, चतुर्षु च मतिश्रुतावधिमनः पर्यायेषु । निर्ग्रन्थोऽप्येवमेव, स्नातकस्तु केवलज्ञान एव ॥ द्वारम् ७||
'तित्थे’त्ति, इह च तीर्थं यत्तीर्थङ्करेण क्रियते, पुलाको बकुशप्रतिसेवेकौ च तीर्थे, कषायकुशीलनिर्ग्रन्थस्नातकास्तीर्थाऽतीर्थयोः, अर्हत्प्रत्येकबुद्धयोरतीर्थत्वात् ॥ द्वारम् ८॥
'लिंगि 'त्ति, लिङ्गं द्विधा द्रव्यभावभेदात्, तत्रामी द्रव्यतः स्वलिङ्गेऽन्यलिङ्गे गृहिलिङ्गे वा स्युः, भावतस्तु स्वलिङ्गे एव ॥ द्वारम् ९॥
'सरीरि'त्ति, पुलाकस्त्रिष्वौदारिकतैजसकार्मणेषु, बकुशप्रतिसेवनाकुशीलौ त्रिषु चतुर्षु वा वैक्रियस्यापि तयोर्भावात् । कषायकुशीलोऽप्येवं पञ्चसु तस्याऽाहारकेऽपि भावात्, निर्ग्रन्थः स्नातकश्च पुलाकवत् ॥ द्वारम् १०॥
'खित्ते'त्ति, क्षेत्रं कर्मभूम्यादि, तत्र जन्मतः पञ्चाप्यमी कर्मभूमौ स्युः, यथा संहरणतः कर्माकर्मभूम्यः || दारम् ११ ||
‘काले’त्ति, कालतः पञ्चापि पुलाकाद्या जन्मतः सद्भावतश्चावसर्पिण्यां सुषमदुःषमा दुःषमसुषमा दुःषमाकालेषु स्युः, उत्सर्पिण्यां दुःषमसुषमासुषमदुःषमयोः, इदं च
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org