________________
विंशतितमं महानिर्ग्रन्थीयाध्ययनम् ॥
निःप्रतिकर्मत्वं च नाथतात्यागात् स्यादतोऽनाथतां विंशाध्ययनेनाह-अस्याध्ययनस्य महानिर्ग्रन्थीयं नाम, तत्र निर्ग्रन्थभेदाः प्राक् षष्ठाध्ययने नियुक्त्योक्ताः, अथ निर्ग्रन्थद्वारेणाह नियुक्ति:
पण्णवण १ वेय २ रागे ३, कप्प ४ चरित्त ५ पडिसेवणा ६ नाणे ७ तित्थे ८ । लिंग ९ सरीरे १० खित्ते ११, काल १२ गइ १३ ठिइ १४ संजम १५ निगासे १६ ॥
[आव. नि./गा.४२३] जोगु १७ वओग १८ कसाए १९, लेसा २० परिणाम २१ बंधणे २२ उदए २३ । कम्मोदीरण २४ उवसंपजहाण २५, सण्णा २६ य आहारे २७ ॥
[आव. नि./गा.४२४] भवा २८ ऽऽगरिसे २९ कालं ३० तरे ३१, समुग्घाय ३२ खित्त ३३ फुसणा य ३४ । भाव ३५ परिमाणे ३६ खलु, महानियंठाण अप्पबहू ॥३७॥ [आव. नि./गा.४२५] इति गाथात्रयं द्वारम् ॥ प्रज्ञापना स्वरूपाख्यानं प्रागुक्तं, तच्चैषां क्षुल्लकनिर्गन्थीयाध्ययने एवोक्तम् ॥ द्वारम् ॥१॥
'वेद'त्ति वेदाः स्त्रीपुङ्क्लीबभेदाः, तत्र पुलाकः पुब्लीबवेदयोः, न तु स्त्रीवेदे, तत्र तथाविधलब्धेरभावात् , बकुशः स्त्रीपुङ्क्लीबवेदेषु त्रिष्वप्येवम् । प्रतिसेवनाकुशीलोऽपि कषायकुशीलः सवेदो वा स्यादवेदो वा, सवेदस्त्रिस्वपि वेदेषु, अवेदस्तूपशान्तवेदः क्षीणवेदो वा । निर्ग्रन्थस्त्ववेद एव, सोऽप्युपशान्तवेदः क्षीणवेदो वा । एवं स्नातकोऽपि, नत्वसावुपशान्तवेदः क्षीणमोहत्वात् ॥ द्वारम् ।।२।।
_ 'रागे'त्ति, पुलाकबकुशप्रतिसेवनाकुशीलाः सरागा एव कषायोदयवर्तित्वात्तेषां, निर्ग्रन्थो वीतरागः क्षीणकषायवीतरागो वा, एवं स्नातकोऽपि नवरमयं क्षीणकषायवीतराग एव । द्वारम् ३ ॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org