________________
५७५
षट्त्रिंशं जीवाजीवविभक्तिसंज्ञमध्ययनम्
एएसिं वण्णओ चेव, गंधओ रसफासओ ।
संठाणादेसओ वा वि, विहाणाइं सहस्ससो ॥१३५॥ व्याख्या-एतेषां द्वीन्द्रियाणां वर्णतो गन्धतो रसतः स्पर्शतः संस्थानादेशतश्च सहस्रशो भेदा भवन्ति ॥१३५।। अथ त्रीन्द्रियानाह
तेइंदिया उ जे जीवा, दुविहा ते पकित्तिया ।
पज्जत्तमपज्जत्ता, तेसिं भेए सुणेह मे ॥१३६॥ व्याख्या-ये त्रीन्द्रिया जीवास्ते द्विविधाः प्रकीर्तिताः, पर्याप्ता अपर्याप्ताश्च तेषां भेदान् कथयतो 'मे' शृणुत ! ॥१३६॥
कुंथुपिवीलउद्दसा, उक्कलुद्देहिया तहा ।
तणहारा कठ्ठहारा, मालूगा पत्तहारगा ॥१३७॥ व्याख्या-कुन्थवः, पिपीलिकाः, उदंशाः, उत्कलिक्ताः, उपदेहिकाः, तृणाहाराः, काष्ठाहाराः, मालूकाः पत्रहारकाः ॥१३७।।
कप्पासऽट्ठिमिंजा य, तिंदुगा तउसमिंजगा ।
सदावरी य गुम्मी य, बोधव्वा इंदगायगा ॥१३८॥ व्याख्या-कर्पासाः, अस्थिजाताः, तिन्दुकाः, तन्तुसमिञ्जिकाः सदावरी, गुल्मीति यूका, तथेन्द्रकायका अपि बोधव्याः ॥१३८||
इंदगोवगमाईया, णेगविहा एवमाईओ।
लोएगदेसे ते सव्वे, न सव्वत्थ वियाहिया ॥१३९॥ व्याख्या-इन्द्रगोपकादिकाः, एवमादिका अनेकविधास्त्रीन्द्रियाः सन्ति, ते सर्वे लोकैकदेशे व्याप्ताः सन्ति, न सर्वत्र व्याख्याताः ॥१३९।।
संतई पप्प णाईया, अपज्जवसिया वि य ।
ठिइं पडुच्च साईया, सपज्जवसिया वि य ॥१४०॥ व्याख्या-एते त्रीन्द्रियाः सन्ततिं प्राप्याऽनादयोऽपर्यवसिताः, स्थितिं च प्रतीत्य सादयः सपर्यवसिताश्च ।।१४०॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org