________________
५७४
श्रीउत्तराध्ययनदीपिकाटीका-२ व्याख्या-कृमयोऽशुच्यादिजाः, सोमङ्गलाः, अलसाः मातृवाहकाः, वास्याकारमुखाः, सुक्तयः, शङ्खाः, शङ्खनकास्तथा ॥१२८॥
पल्लुगाणुल्लगा चेव, तहेव य वराडगा ।
जलूगा जालगा चेव, चंदणा य तहेव य ॥१२९॥ व्याख्या-पल्लुका च पुनरणुपल्लकास्तथैव वराटकाः कपर्दकाः, जलूका रुधिरपाः, जालकास्तथैव चन्दना अक्षाः ॥१२९।।
इइ बेइंदिया एए, णेगहा एवमाइआ ।
लोगस्सेगदेसंमि, एए सव्वे वियाहिया ॥१३०॥ व्याख्या-इत्येवं प्रकारेण द्वीन्द्रिया जीवा एतेऽनेकधा एवमादयः सर्वे लोकस्यैकदेशे तिर्यग्लोकोऽब्ध्यादिषु स्थिता व्याख्याताः सन्ति ॥१३०॥
संतई पप्पणाइया, अपज्जवसिया वि य ।
ठिई पडुच्च साइया, सपज्जवसिया वि य ॥१३१॥ व्याख्या-ते द्वीन्द्रियाः सन्ततिं प्राप्यानादयस्तथाऽपर्यवसिता अपि । स्थितिं च प्रतीत्य सादयः सपर्यवसिता अपि ॥१३१।।
वासाइं बारसे चेव, उक्कोसेण वियाहिया ।
बेइंदियआउठिइ, अंतोमुहत्तं जहन्निया ॥१३२॥ व्याख्या-द्वीन्द्रियाणामायुःस्थितिरुत्कृष्टा द्वादशवर्षाणि, जघन्यतश्चान्तर्मुहूर्तमाख्याता ॥१३२॥
संखेज्जकालमुक्कोसं, अंतोमुहत्तं जहन्निया ।
बेइंदियकायठिइ, तं कायं तु अमुंचओ ॥१३३॥ व्याख्या-द्वीन्द्रिजीवानां तं स्वकीयं कायममुञ्चतां कायस्थितिरुत्कृष्टा सङ्ख्येयकालं, जघन्यतश्चान्तर्मुहूर्तम् ॥१३३॥
अणंतकालमुक्कोसं, अंतोमुहुत्तं जहन्नियं ।
बेइंदियजीवाणं, अंतरं तु वियाहियं ॥१३४॥ व्याख्या-द्वीन्द्रियजीवानामुत्कृष्टमन्तरमनन्तकालं, जघन्यं चान्तर्मुहूर्तं व्याख्यातम् ॥१३४॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org