________________
५७३
षट्त्रिंशं जीवाजीवविभक्तिसंज्ञमध्ययनम्
असंखकालमुक्कोसं, अंतोमुहुत्तं जहन्नयं ।
कायठिई वाऊणं, तं कायं तु अमुंचओ ॥१२३॥ व्याख्या-वायुकायनां स्वं कायममुञ्चतामसङ्ख्येयकालमुत्कृष्टा स्थितिः, जघन्यतश्चान्तर्मुहर्तं कायस्थितिर्व्याख्याता ॥१२३।।
अणंतकालमुक्कोसं, अंतोमुहुत्तं जहन्नयं ।
विजढम्मि सए काये, वाउजीवाणमंतरं ॥१२४॥ व्याख्या-वायुजीवानां स्वकीये काये त्यक्ते सति उत्कृष्टमन्तरमनन्तकालं, जघन्यं चान्तर्मुहूर्तं भवति ॥१२४॥
एएसिं वण्णओ चेव, गंधओ रसफासओ ।
संठाणादेसओ वा वि, विहाणाई सहस्ससो ॥१२५॥ व्याख्या-एषां वायुकायजीवानां वर्णतो गन्धतो रसतः स्पर्शतः संस्थानादेशतश्चापि सहस्रशो भेदा भवन्ति ॥१२५।। एवं तेजोवायुत्रसानुक्त्वोदारत्रसानाह
ओराला तसा जे उ, चउहा ते पकित्तिया ।
बेइंदिय तेइंदिय, चउरो पंचिंदिया तहा ॥१२६॥ व्याख्या-उदारास्त्रसा ये पुनस्ते चतुर्धाः प्रकीर्तिताः, द्वीन्द्रियाः, त्रीन्द्रियाः, चतुरिन्द्रियाः पञ्चेन्द्रियाश्च । एतच्च निर्वृत्त्युपकरणाख्यं द्रव्येन्द्रियमभिप्रेत्योक्तं, भावेन्द्रियापेक्षया तु एकेन्द्रियाणामपीन्द्रियपञ्चकसम्भवः ॥१२६॥ द्वीन्द्रियवक्तव्यमाह
बेइंदिया उ जे जीवा, दुविहा ते वियाहिया ।
पज्जत्तमपज्जत्ता, तेसिं भेये सुणेह मे ॥१२७॥ व्याख्या-ये जीवास्तु द्वीन्द्रियास्ते द्विविधा व्याख्याताः, पर्याप्ता अपर्याप्ताश्च, तेषां भेदान् 'मे' कथयतो यूयं शृणुत ! ॥१२७॥
किमिया सोमंगला चेव, अलसा माइवाहया । वासिमुहा य सिप्पीया, संखा संखणगा तहा ॥१२८॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org