________________
५७२
श्रीउत्तराध्ययनदीपिकाटीका-२ बादरा जे उ पज्जत्ता, पंचहा ते वियाहिया ।
उक्कलिया मंडलिया, घणगुंजा सुद्धवाया य ॥११८॥ व्याख्या-ये बादरा वायुकायजीवाः पर्याप्तास्ते पञ्चधा बहुविधा अपि व्याख्याताः, उत्कलिका वाता ये स्थित्वा स्थित्वा वान्ति, मण्डलिका वाता वातालीरूपाः, घनवाता घनोदधिविमानानां चाधाराः, हिमपटकल्पा वायवः, गुञ्जा, वाता ये गुञ्जन्तो वान्ति, शुद्धवाता उत्कलिकाद्युक्तविशेषविकला मन्दाऽनिलाः ॥११८॥
संवट्टगवाया य णेगहा एवमायओ।
एगविहमणाणत्ता, सुहुमा ते वियाहिया ॥११९॥ व्याख्या-संवर्तकवाता ये बहि:स्थमपि तृणादि विवक्षितक्षेत्रान्तः क्षिपन्ति, एवमादयोऽनेकधा वाताः सन्ति, परं वायुजातिसामान्यत्वेन ते एकविधा अनानात्वास्तीर्थकरैः सूक्ष्मवायुकायजीवा व्याख्याताः ॥११९॥
सहमा सव्वलोगंमि, लोगदेसे य बायरा ।
एत्तो कालविभागं तु, तेसिं वुच्छं चउव्विहं ॥१२०॥ व्याख्या-सूक्ष्मा वायुकायजीवाः सर्वस्मिन् चतुर्दशराज्ज्वात्मके लोके स्थिताः सन्ति, बादरा वायुकायजीवाश्च लोकैकदेशे स्थिताः सन्ति, एवं क्षेत्रविभाग उक्तः, इतोऽनन्तरं तेषां वायुकायजीवानां चतुर्विधं कालविभागं वक्ष्ये ॥१२०॥
संतई पप्प णाईया अपज्जवसिया वि य ।
ठिई पडुच्च साइया, सपज्जवसिया वि य ॥१२१॥ व्याख्या-सन्तति प्रवाहमाश्रित्य ते अनादयोऽपर्यवसिताश्च, स्थितिं च प्रतीत्य ते सादिकाः सपर्यवसिताश्च सन्ति ॥१२१॥
तिन्नेव सहस्साइं, वासाणुक्कोसिया भवे ।
आउठिई वाऊणं, अंतोमुहुत्तं जहन्निया ॥१२२॥ व्याख्या-वायुकायानां त्रीणि वर्षसहस्राण्युत्कृष्टायुःस्थितिः, अन्तर्मुहूर्तं च जघन्यिका ॥१२२।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org