________________
५७१
षट्त्रिंशं जीवाजीवविभक्तिसंज्ञमध्ययनम्
तिण्णेव अहोरत्ता, उक्कोसेण वियाहिया ।
आउठिइ तेऊणं, अंतोमुहत्तं जहण्णिया ॥११३॥ व्याख्या-तेजसा तेजोजीवानामुत्कृष्टतस्त्रीणि अहोरात्राणि आयुःस्थिर्व्याख्याता, जघन्यिका चायुःस्थितिरन्तर्मुहूर्तं ज्ञेयेत्यर्थः ॥११३॥ अथ कायस्थितिमाह
असंखकालमुक्कोसं, अंतोमुहुत्तं जहन्नयं ।
कायठिई तेऊणं तं कायं तु अमुंचओ ॥११४॥ व्याख्या-तेजसां तेजस्कायजीवानां स्वकायममुञ्चतां उत्कृष्टमसङ्ख्यकालं स्थिति-र्भवति, तेजस्कायस्थो जीवो मृत्योरनन्तरं यदि तेजस्काये एवोत्पद्यते, तदाऽसङ्ख्यं कालं तेजस्काये तिष्ठतीत्यर्थः, जघन्यं त्वन्तर्मुहूर्तं तिष्ठतीति ॥११४।। कालस्यान्तरमाह
अणंतकालमुक्कोसं, अंतोमुहुत्तं जहन्नयं । विजढम्मि सए काए, तेउजीवाणमंतरं ॥११५॥ व्याख्या-तेजोजीवानां स्वकीये तेजस्काये त्यक्ते सति उत्कृष्टमन्तरमनन्तकालं, तेजस्कायजीवास्तत्कायाच्च्युत्वा अपरस्मिन् काये उत्पद्य पुनस्तेजस्काये उत्कृष्टमनन्तकालस्यान्तरेणोत्पद्यन्ते, जघन्यं त्वन्तर्मुहूर्तेनाप्युत्पद्यन्ते । नवसमयादारभ्य किञ्चिदूनं घटिकाद्वयमन्तर्मुहूर्तमुच्यते ॥११५॥
एएसिं वण्णओ चेव, गंधओ रसफासओ ।
संठाणादेसओ वा वि, विहाणाइं सहस्ससो ॥११६॥ व्याख्या-एतेषामग्निकायजीवानां वर्णतो गन्धतो रसतः स्पर्शतः संस्थानादेशतश्चापि सहस्रशो विधानानि भेदा भवन्ति ।।११६।।
दुविहा वाउजीवा, सुहुमा बायरा तहा ।
पज्जत्तमपज्जत्ता एवमेए दुहा पुणो ॥११७॥ व्याख्या-वायुजीवा द्विविधाः सूक्ष्मा बादराश्च, ते पुनः पर्याप्ताऽपर्याप्तभेदेन द्विधाः सन्ति ॥११७॥
_Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org