________________
५७०
श्रीउत्तराध्ययनदीपिकाटीका-२ तत्र तेजोजीवानाह
दुविहा तेउजीवा उ, सुहुमा बायरा तहा ।
पज्जत्तमपज्जत्ता, एवमेए दुहाहिया ॥१०८॥ व्याख्या-द्विविधास्तेजोजीवाः सूक्ष्मा बादराश्च तथा, ते पुनः पर्याप्ताऽपर्याप्तभेदेन द्विविधाः ॥१०८॥
बायरा जे उ पज्जत्ता, णेगहा ते वियाहिया ।
इंगाले मुम्मुरे अगणी, अच्चि जाला तहेव य ॥१०९॥ व्याख्या-ये बादराः पर्याप्ता अग्निजीवास्तेऽनेकधा व्याख्याताः, तत्राङ्गारो भास्वरः, मुर्मुरो भस्ममिश्राग्निकणः, अग्निरुक्तभेदाऽतिरिक्तः, अचिर्मूलप्रतिबद्धा शिखा तेजो वा, ज्वाला छिन्नमूला सैव, तथैव च ॥१०९॥
उक्का विज्जू य बोधव्वा, णेगहा एवमाइआ ।
एगविहमणाणत्ता, सुहुमा ते वियाहिया ॥११०॥ व्याख्या-उल्काग्निस्तारावदाकाशात् पतन् यो दृश्यते, विद्युत्तडिदग्निः, एवमादिका अनेकधा अग्निजीवा बोधव्याः, तेऽग्नयः सूक्ष्मा एकविधा एव अनानात्वा व्याख्याताः ॥११०॥
सुहुमा सव्वलोगंमि, लोगदेसे य बायरा ।
एत्तो कालविभागं तु, तेसिं वुच्छं चउव्विहं ॥१११॥ व्याख्या-सूक्ष्माऽग्निजीवाः सर्वस्मिश्चतुर्दशरज्ज्वात्मकलोके सन्ति, बादराग्निकायजीवाश्च लोकैकदेशे सार्द्धद्वयद्वीपे सन्ति । इति क्षेत्रविभाग उक्तः इतोऽनन्तरं तेषामग्निकायजीवानां चतुर्विधं कालविभागं वक्ष्ये ॥१११॥
संतई पप्प णाइया, अपज्जवसिया वि य ।
ठिई पडुच्च साइया, सपज्जवसिया वि य ॥११२॥ व्याख्या-अग्निकायजीवाः सन्ततिं प्राप्याऽनादिका आदिरहितास्तथा अपर्यवसिताः सन्ति, स्थितिं प्रतीत्यायुराश्रित्य सादिकाः सपर्यवसिताश्चापि वर्तन्ते ॥११२॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org