________________
षट्त्रिंशं जीवाजीवविभक्तिसंज्ञमध्ययनम्
५६९ व्याख्या-पनकानां पनकोपलक्षितफूलणिवनस्पतिजीवानां तं स्वकीयं कायममुञ्चतां कायस्थितिरुत्कृष्टाऽनन्तकालं, जघन्यतश्चान्तर्मुहुर्तं ज्ञेया । अत्र सामान्यतो निगोदस्यानन्तकाल उक्तः, यथा भगवत्यां-"निगोयस्स णं भंते ! केवइयं कालं ठिई पण्णत्ता" [ ] इत्यादि ॥१०३।। अथ कालस्यान्तरमाह
असंखकालमुक्कोसं, अंतोमुहुत्तं जहन्नयं । विजढंमि सए काए, पणगजीवाण अंतरं ॥१०४॥ व्याख्या-पनकजीवानां स्वकीये काये त्यक्ते सति अपरस्मिन् पृथिव्यादिषु कायेषूत्पद्य पुनः पनकत्वेनोत्पद्यमानानामुत्कृष्टमसङ्ख्यकालमन्तरं भवति, जघन्यमन्तरं त्वन्तर्मुहूर्तं भवति ॥१०४।।
अथ प्रकृतमुपसंहरन्नग्रेतनं सम्बन्धं सूचयति
एएसिं वण्णओ चेव, गंधओ रसफासओ ।
संठाणादेसओ वा वि, विहाणाइं सहस्ससो ॥१०५॥ व्याख्या-एतेषां सूक्ष्मबादरवनस्पतिजीवानां वर्णतो गन्धतो रसतः स्पर्शतः संस्थानादेशतश्चापि सहस्रशो विधानानि भवन्ति, अत्र सहस्रशब्देनाऽसङ्ख्या अनन्ताश्च भेदा ज्ञेयाः ॥१०५॥
इच्चेए थावरा तिविहा, समासेण वियाहिया ।
इत्तो उ तसे तिविहे, वुच्छामि अणुपुव्वसो ॥१०६॥ व्याख्या-इत्येवं प्रकारा एते पृथिव्याद्याः स्थावरास्त्रिविधाः समासेन व्याख्याताः, 'इत्तो उ' स्थावरविभक्तेरनन्तरं [तुः पुनरर्थः] सांस्त्रिविधान् वक्ष्याम्यानुपूर्व्या ।।१०६॥
तेऊ वाऊ य बोधव्वा, ओराला य तसा तहा ।
इच्चेए तसा तिविहा, तेसिं भेए सुणेह मे ॥१०७॥ व्याख्या-तेजांस्यत्राग्नयः, तद्वतिनो जीवा अपि तथोक्ताः, एवं वायवोऽपि बोधव्याः, उदारा एकेन्द्रियाऽपेक्षया प्रायः स्थूला द्वीन्द्रियाद्या इत्यर्थः, चः समुच्चये, त्रसास्तथा, इतीत्येते [इतीत्यन्तरोक्ता एते], त्रस्यन्ति चलन्ति देशाद्देशान्तरं सङ्क्रामन्तीति त्रसास्त्रिविधास्तेजोवायू , गतित उदाराश्च लब्धितोऽपि त्रसाः, तेषां तेजःप्रभृतीनां भेदान् शृणुत ! 'मे' ॥१०७॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org