________________
५६८
श्रीउत्तराध्ययनदीपिकाटीका-२ व्याख्या-लोहिनीकन्दः १२ हूताक्षीकन्दः १३ हूतकन्दः १४ तुहककन्दः १५ कृष्णाकन्दः १६ वज्रकन्दः १७ सूरणकन्दः १८ तथा ॥९८॥
असकन्नी य बोधव्वा, सीहकन्नी तहेव य ।
मसंढी य हलिद्दे य, णेगहा एवमायओ ॥१९॥ व्याख्या-अश्वकर्णीकन्दो १९ बोधव्यः, तथैव सिंहकर्णीकन्दः २० मुसण्डीकन्दः २१ हरिद्राकन्दः २२ एवमादिका अनेकधाः कन्दजातयो ज्ञेयाः । अनन्तकायलक्षणं यथा
चक्काभं भज्जमाणस्स, गंठी चण्णघणो भवे । पुढविसरिसेण भेएण, अणंतजीवं वियाणाहि ॥१॥ [ ] गूढच्छिरागं पत्तं, सच्छीरं चेव होई निच्छीरं ।
जं पि य पणट्ठसन्धि, अणंतजीवं वियाणाहि ॥२॥[ ] ॥९९॥ सूक्ष्मवनस्पतीनाह
एगविहमणाणत्ता, सुहुमा तत्थ वियाहिया ।
सुहुमा सव्वलोयंमि, लोगदेसे य बायरा ॥१००॥ व्याख्या-एकविधा अनानात्वाः सूक्ष्मा वनस्पतयो व्याख्याता जिनैः, तत्र सूक्ष्मा निगोदरूपाः सर्वलोके व्याप्ताः सन्ति, बादराश्च लोकदेशे कुत्रचिद्भवन्ति न वेति ॥१०॥
संतई पप्प णाईया, अपज्जवसियावि य ।।
ठिई पडुच्च साइया, सपज्जवसियावि य ॥१०१॥ व्याख्या-सन्ततिं प्राप्यैते वनस्पतिजीवा अनादयः पुनरपर्यवसिताश्च सन्ति, कायस्थितिं च प्रतीत्य सादिकाः सपर्यवसिताश्च सन्ति ॥१०१॥
दस चेव सहस्साइं, वासाणुक्कोसिया भवे ।
वणस्सईण आउं तु, अंतोमुहुत्तं जहन्नयं ॥१०२॥ व्याख्या-वनस्पतीनां प्रत्येकवनस्पतिजीवानां दशसहस्रवर्षाणि उत्कृष्टायुःस्थितिर्भवति, जघन्यिका स्थितिश्चान्तमुहूर्तं भवति, साधरणानां तु जघन्यत उत्कृष्टतश्चान्तमुहूर्तमेव स्थितिरस्ति ||१०२।।
अणंतकालमुक्कोसं, अंतोमुहुत्तं जहन्नयं । कायट्टिइ पणगाणं, तं कायं तु अमुंचओ ॥१०३॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org