SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ ५६७ षट्त्रिंशं जीवाजीवविभक्तिसंज्ञमध्ययनम् व्याख्या - प्रत्येकशरीराश्च, एकमेकं प्रति प्रत्येकमेकैकशो विभिन्नं शरीरमेषामिति प्रत्येकशरीराः, तेऽनेकधाः प्रकीर्त्तिताः, यथा वृक्षाः सहकारादयः गुच्छा वृन्ताककण्टकारिकाद्याः, गुल्मा नवमालतीप्रमुखाः, लताश्चम्पकाद्याः ४ वल्ल्यो नागवल्ल्याद्याः तथा तृणानि जुञ्जकार्जुनकुशादीनि ६ ||१४|| ५, वलया पव्वया कुहणा, जलरुहा ओसही तहा । हरियकाया य बोधव्वा, पत्तेया इइ आहिया ॥ ९५ ॥ व्याख्या - वलयानि नालिकेरीकदल्यादीनि भण्यन्ते, तासां च शाखान्तराऽभावेन लतात्वं, त्वचो वलयाकारत्वेन च वलयता, पर्वाणि सन्धयस्तेभ्यो जाताः पर्वजाः, ( पाठान्तरे तु - पर्वगा वा इक्ष्वाद्या:) कुहणा भूमिस्फोटकविशेषाः सर्पछत्रकाद्याः, जले रुहन्तीति जलरुहाः पद्माद्याः औषधयः फलपाकान्ता:, तद्रूपाणि तृणान्यौषधि तृणानि शाल्यादीनि, हरितानि तण्डुलेयकादीनि तान्येव कायो येषां ते हरितकायाः, च एषामेवाऽनेकभेदवाची, बोधव्याः, इत्यमुना प्रकारेण प्रत्येकवनस्पतिजीवा आख्याताः ॥९५॥ साहारणसरीरा उ ोगहा ते पकित्तिया । आलूए मूलए चेव, सिंगबेरे तहेव य ॥९६॥ व्याख्या-ये तु साधारणशरीराः साधारणवनस्पतिजीवा अनन्तकायवनस्पतिजीवास्तेऽपि अनेकधा अनेकप्रकाराः प्रकीर्त्तिताः, तेषां च मध्ये केषाञ्चित् प्रसिद्धानां नामान्याह – आलुक आलूपिण्डालुरक्तालुकन्दः १ तथा मूलकः प्रसिद्धः २ शृङ्बेरकमार्द्रकं ३ तथैव च ॥९६॥ हरिली सिरिल सिस्सिरिली, जावईके य कंदली । पलंडुलसणकंदे य, कंदली (कंदे ) य कुहुव्व ॥ ९७ ॥ व्याख्या - हरिलीनामा कन्दः ४ सिरिलीनामा कन्दः ५ सिस्सिरिलीनामापि कन्दः ६ एते कन्दविशेषाः, यावतिकोऽपि कन्दविशेषः ७ कन्दलीकन्दः ८ पलाण्डुकन्दः यो देशविशेषे मांसरूपः कन्दो भवति ९ लसुनकं १० कुहुव्रतकं नाम कन्दविशेषः ११ ||९७|| लोहिणी हूयत्थीहू, तुहगा य तहेव य । कण्हे य वज्जकंदे य, कंदे सूरणए तहा ॥ ९८ ॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002569
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorJaykirtisuri
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy