________________
५६६
श्रीउत्तराध्ययनदीपिकाटीका-२ असंखकालमुक्कोसं, अंतोमुहुत्तं जहन्निया ।
कायठिइ उ आऊणं, तं कायं तु अमुंचओ ॥८९॥ व्याख्या-अब्जीवानां तं स्वकायमर्थादप्कायममुञ्चतामुत्कृष्टा कायस्थितिसङ्ख्यकालं भवति, जघन्या कायस्थितिस्त्वन्तर्मुहूर्तं भवति ॥८९।।
अणंतकालमुक्कोसं, अंतोमुहुत्तं जहन्नयं । विजढंमि सए काए, आउजीवाण अंतरं ॥१०॥ व्याख्या-अब्जीवानां स्वकीये काये त्यक्ते सति अपरस्मिन् काये उत्पद्य यदि पुनः स्वकीये काये उत्पत्तिः स्यात्तदोत्कृष्टमन्तरमनन्तकालं भवति, जघन्यमन्तरं चान्तर्मुहूर्तं भवति ॥९०॥
एएसिं वण्णओ चेव, गंधओ रसफासओ ।
संठाणभेयओ यावि, विहाणाई सहस्ससो ॥११॥ व्याख्या-एतेषां वर्णतश्चैव गन्धतो रसतः स्पर्शतः संस्थानभेदतश्चाप्यसङ्ख्याता भेदाः सन्ति ।।९१॥ उक्ता आपः, वनस्पतीनाह
दुविहा वणस्सइ जीवा, सुहुमा बायरा तहा ।
पज्जत्तमपज्जत्ता, एवमेए दुहाहिया ॥१२॥ व्याख्या-वनस्पतिजीवा द्विविधाः, सूक्ष्मास्तथा बादराश्च, ते सूक्ष्मा बादराश्चापि पर्याप्ता अपर्याप्ताश्च द्विविधा आख्याताः ॥१२॥
बायरा जे उ पज्जत्ता, दुविहा ते वियाहिया ।
साहारणसरीरा य, पत्तेयगा तहेव य ॥९३॥ व्याख्या-ये बादरा वनस्पतिजीवाः पर्याप्तास्तेऽपि द्विधा व्याख्याताः, साधारणशरीराश्च साधारणमनन्तजीवानामपि समानं शरीरं येषां तेऽमी साधारणशरीराः, आहारपानग्रहणेऽप्येषां साधारणत्वं, पुनः प्रत्येकास्तथैव च वनस्पतिजीवाः ।।९३।।
पत्तेयसरीरा उ, णेगहा ते पकित्तिया । रुक्खा गुच्छा गुम्मा य, लया वल्ली तणा तहा ॥१४॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org