________________
५६५
षट्त्रिंशं जीवाजीवविभक्तिसंज्ञमध्ययनम् अप्जीवानाह
दुविहा आउजीवा उ, सुहुमा बायरा तहा ।
पज्जत्तमपज्जत्ता, एवमेए दुविहाहिया ॥८४॥ व्याख्या-अब्जीवास्तु द्विविधाः, सूक्ष्मास्तथा बादराश्च, तेऽपि पर्याप्ता अपर्याप्ताश्चैकेके, एवमेते द्विविधा आख्याताः ॥८४॥
बादरा जे उ पज्जत्ता, पंचहा ते वियाहिया ।
सुद्धोदए य उस्से य, हरितणू महिया हिमे ॥५॥ व्याख्या-ये बादराः पर्याप्ता अब्जीवा ते पुनः पञ्चधा व्याख्याताः, शुद्धोदकं मेघाम्बु समुद्राद्यम्बु च, 'उस्से'त्ति अवश्यायः शरदादिषु प्राभातिक: सूक्ष्मवर्षः, हरतनुः प्रातः स्निग्धपृथ्वीभवस्तृणाग्रजलबिन्दुः, महिका गर्भमासेषु सूक्ष्मवर्षः, हिमं च ॥८५॥ सूक्ष्मानाह
एगविहमणाणत्ता, सुहुमा तत्थ वियाहिया ।
सुहुमा य सव्वलोयंमि, लोयदेसे य बायरा ॥८६॥ व्याख्या-एकविधा अनानात्वाः सूक्ष्मा अप्कायजीवास्तत्र व्याख्याता जिनैरिति । ते सूक्ष्माः सर्वलोके चतुर्दशरज्ज्वात्मके वर्तन्ते, बादराश्चाप्कायजीवा लोकदेशे लोकस्यैकदेशेऽब्ध्यादिजलस्थानसमुदये वर्तते ॥८६।।
संतई पप्प तेऽणाइ, अपज्जवसिया वि य ।
ठिई पडुच्च साईया, सपज्जवसिया वि य ॥८७॥ व्याख्या-सन्ततिं प्रवाहमार्गमाश्रित्य अप्कायजीवा अनादिका अपर्यवसिताश्चापि, स्थितिं भवस्थिति कायस्थिति चाश्रित्य सादिकास्तथा सपर्यवसिता अवसानसहिता अपि वर्तन्ते ।।८७॥
सत्तेव सहस्साइं, वासाणुक्कोसिया भवे ।
आउठिई आऊणं, अंतोमुहुत्तं जहन्निया ॥८८॥ व्याख्या-अपां अप्कायजीवानां सप्तैव सहस्राणि वर्षाणामुत्कृष्टा आयुषः स्थितिर्भवेत् , जघन्यतश्चान्तर्मुहूर्तं भवेत् ॥१८॥
_Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org