________________
श्रीउत्तराध्ययनदीपिकाटीका-२ व्याख्या सन्ततिं प्रवाहं प्राप्य ते अनादिका अपर्यवसिता अपि च, पृथ्वीकायानां प्रवाहतः कदाचिदसम्भवात् , स्थितिं भवस्थितिकायस्थितिरूपां प्रतीत्याश्रित्य सादिकाः सपर्यवसिताः, अपि च द्विविधाया अपि तस्यानियतकालत्वात् ।।७९।।
बावीस सहस्साइं, वासाणुक्कोसिया भवे ।
आउठिई पुढवीणं, अंतमुहुत्तं जहन्निया ॥८०॥ व्याख्या-द्वाविंशतिसहस्राणां वर्षाणामुत्कृष्टा भवेदायुःस्थितिः पृथ्वीबादरकायानां, जघन्या चान्तर्मुहूर्तम् ॥८०||
असंखकालमुक्कोसं, अंतोमुहुत्तं जहन्निया ।
कायठिई पुढवीणं, तं कायं च अमुंचओ ॥८१॥ व्याख्या-असङ्ख्यकालमुत्कृष्टा, जघन्यिका चान्तर्मुहूर्त काये पृथ्वीकायस्थितिः, ततोऽनुद्धर्त्तनेन स्थानं कायस्थितिः, पृथ्वीभेदजीवानां तमिति पृथ्वीकायममुञ्चतां मृत्वा मृत्वा पृथ्वीकाय एवोत्पद्यमानानां, असङ्ख्यकालशब्देनात्रोत्कृष्टाऽसङ्ख्यभेदेन व्यवहारो ज्ञेयः ॥८१॥ कालान्तर्गतमेवान्तरमाह
अणंतकालमुक्कोसं, अंतोमुहुत्तं जहन्नियं । विजढंमि सए काए, पुढवीजीवाण अंतरं ॥८२॥ व्याख्या-अनन्तकालमुत्कृष्टं, जघन्यं चान्तर्मुहूर्त, 'विजढंमि' इति त्यक्ते सति स्वकीये काये पृथ्वीजीवानां तु अन्तरं, कोऽर्थः ? जघन्यत उत्कृष्टत इयता कालेन पृथ्वीकायजीवोऽन्यकायान् भ्रान्त्वा पुनः पृथ्वीकाये उत्पद्यते । अनन्तकालशब्देन च मध्यमानन्तानन्तेन व्यवहारो ज्ञेयः ॥८२॥ पृथ्वीजीवान् भावत आह
एएसिं वण्णओ चेव, गंधओ रसफासओ ।
संठाणादेसओ यावि विहाणाइं सहस्ससो ॥८३॥ व्याख्या-एतेषां बादरपृथ्वीकायानां वर्णगन्धरसस्पर्शसंस्थानभेदैश्चैवं विधानानि प्रकाराः सहस्त्रशोऽनेककुलकोटीत्वात् वर्णादीनां भवरूपत्वाद्भावानां च सङ्ख्याभेदेन पृथ्वीकायनां भेदसङ्ख्योत्पत्तेः सहस्त्रश इत्युक्त्या वर्णादितारतम्यस्य बहुतरभेदत्वेनाऽसङ्ख्यभेदा ज्ञेयाः ।।८३॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org