________________
षट्त्रिंशं जीवाजीवविभक्तिसंज्ञमध्ययनम्
५६३ व्याख्या-हरितालो हिङ्गुलको मनःशिला, सासकश्च धातुविशेषः, अञ्जनं समीरकं, प्रवालं विद्रुमं, अभ्रपटलं अभ्रवालुका अभ्रपटमिश्रा वालुका, बादरकाय इति बादरपृथ्वीकायेऽमी भेदाः, मणिविधानानि च मणिभेदाः ॥७४।। मणिभेदानाह
गोमिज्जए य रुयए, अंके फलिहे य लोहियक्खे य ।
मरगयमसारगल्ले, भुयमोयग इंदनीले य ॥५॥ व्याख्या-गोमेदकश्च रुचकः अङ्कः स्फटिकश्च लोहिताक्षश्च मरकतो मसारगल्लो भुजमोचक इन्द्रनीलश्च ॥७५।।
चंदणगेयरुयहंसगब्भ, पुलए सोगंधिए य बोधव्वे ।
चंदप्पभवेरुलिए, जलकंते सूरकंते य ॥७६॥ व्याख्या-चन्दनो गैरुको हंसगर्भः पुलकः सौगन्धिकश्च बोधव्यः, चन्द्रप्रभो वैडूर्यो जलकान्तः सूरकान्तश्च ॥
इह पृथ्व्याद्याः १४, हरितालाद्याः ८, गोमेदकाद्याश्च १४, क्वचित् कस्यचित् कथञ्चिदन्तर्भावान्मीलिताः षट्त्रिंशत् ३६ भवन्तीति ॥७६।।
.. एए खरपुढवीए, भेया छत्तीसमाहिया । ___एगविहमणाणत्ता, सुहुमा तत्थ वियाहिया ॥७७॥
व्याख्या-एते खरपृथिव्यास्तत्स्थजीवानां भेदाः षट्त्रिशदाख्याताः, तथा एकविधा अनानात्वा अभेदाः सूक्ष्मास्तत्र पृथ्वीजीवेषु व्याख्याताः ॥७७॥ सूक्ष्मान् क्षेत्रत् आह
सुहुमा य सव्वलोगंमि, लोगदेसे य बादरा ।
एत्तो कालविभागं तु, वोच्छं तेसिं चउव्विहं ॥७८॥ व्याख्या-सूक्ष्माः सर्वलोके चतुर्दशरज्ज्वात्मके तत्र सर्वत्र सर्वदा तेषां भावात् , लोकस्य देशो विभागो लोकदेशस्तस्मिंश्च पुनरर्थे बादराः सन्ति । इतस्तेषां सूक्ष्मबादरपृथ्वीनां यथाक्रमं कालविभागं वक्ष्ये चतुर्विधं सादि, पर्यवसितं, अनादि अपर्यवसितं च ॥७८।।
संतई पप्प तेऽणाई, अपज्जवसिया वि य । ठिइं पडुच्च साईया, सपज्जवसिया वि य ॥७९॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org