________________
५६२
श्रीउत्तराध्ययनदीपिकाटीका-२ शरीरेन्द्रियोच्छासनिःश्वासरूपाभिः पर्याप्तिभिः पर्याप्ताः, तद्विपरीताश्चाऽपर्याप्ताः, एवं पर्याप्ताऽपर्याप्तभेदेनैते सूक्ष्मा बादराश्च द्विधाः पुनः, (पाठान्तरे-“एगमेग'त्ति, एकैके द्विविधाः) ॥७०॥ एषामुत्तरभेदानाह
बायरा जे उ पज्जत्ता, दुविहा ते वियाहिया ।
सण्हा खरा य बोधव्वा, सण्हा सत्तविहा तहिं ॥७१॥ व्याख्या-बादरा ये पुनः पर्याप्ता द्विविधास्ते व्याख्याताः, श्लक्ष्णा इह चूर्णितलोष्टकल्पा मृदुः पृथ्वी, तदात्मका जीवा अप्युपचारतः श्लक्ष्णाः, एवमुत्तरत्रापि खराश्च कठिना बोधव्याः, श्लक्ष्णाः सप्तविधास्तस्मिन् भेदद्वये ।।७१।। सप्तभेदानाह
किण्हा नीला य रुहिरा, हालिद्दा सुक्किला तहा ।
पंडु पणगमट्टिया, खरा छत्तीसईविहा ॥७२॥
व्याख्या-कृष्णा नीलाश्च रुधिरा रक्तवर्णाः, हरिद्राः पीताः शुक्लाः, तथा 'पंडु'त्ति पाण्डवः पाण्डुरा ईषच्छौकल्यभाज इत्यर्थः, इत्थं च वर्णभेदेन षड्विधत्वं, इह च पाण्डुरग्रहणं कृष्णादिवर्णानामपि स्वस्थानभेदान्तरज्ञप्त्यै, पनकोऽत्यन्तसूक्ष्ममरजोरूपः, स एव मृत्तिकापनको व्योम्नि वर्तमानो लोके पृथ्वीत्वेन रूढत्वात् तद्भेदत्वेनोक्तः, अन्ये त्वाहुः पनको मृत्तिका, मरुषु पर्पटिकेति रूढा, यस्याश्चरणाद्यभिघाते झगित्युज्जृम्भणं, खराश्च खरपृथ्वीजीवाः षट्त्रिंशद्विधाः षट्त्रिंशद्भेदाः ॥७२॥ तानाह
पुढवी य सक्करा वालुगा य, उवले सिला य लोणूसे ।
अयतउयतंबसीसग-रुप्पसुवण्णे य वइरे य ॥७३॥ व्याख्या-पृथ्वी च शुद्धपृथ्वी, शर्करा लघुशकलरूपा, वालुका च, उपलो गण्डशैलादिः, शिला च दृषत् , लवणं समुद्रलवणादि, उषः क्षारमृत्तिका, अयो लोहं, त्रपुकं कस्तीरं, तानं, सीसकं, रूप्यं, सुवर्णं च, एषां सम्बन्धिनो धातव एव, तेषु ह्यमूनि प्रागपि सन्त्येव केवलं मलविगमादाविर्भवन्ति, वज्रश्च हीरकः ॥७३॥
हरियाले हिंगुलए, मणोसिला सासगंजणपवाले। अब्भपडलब्भवालु य, बायरकाए मणिविहाणा ॥७४॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org