________________
षट्त्रिंशं जीवाजीवविभक्तिसंज्ञमध्ययनम्
५६१ ज्ञानदर्शनसञिता ज्ञानदर्शनोपयोगवन्तः, अतुलमपरिमितत्वात् सुखं सम्प्राप्ताः, यस्य सुखस्योपमा नास्ति ॥६६॥ उक्तग्रन्थेन ज्ञातमपि विप्रतिपत्तिनिरासार्थं पुनः क्षेत्रं स्वरूपं च तेषामाह
लोएगदेसे ते सव्वे, नाणदंसणसन्निया ।
संसारपारनित्थिन्ना, सिद्धि वरगइं गया ॥६७॥ व्याख्या-लोकैकदेशे ते सिद्धाः सर्वे तिष्ठन्ति, अनेन मुक्ताः सर्वत्र तिष्ठन्तीति मतमपास्तं, ज्ञानदर्शनसञ्जिताः, इत्यनेन मा भूत् केषाञ्चिद् ज्ञानसजा, अपरेषां च दर्शनसझैव केवला, किम्भूते अपि, सर्वेषां ज्ञानोच्छेदे मुक्तिरिति मतं चाऽपास्तं । संसारपारं निस्तीर्णाः पुनरागमनाऽभवालक्षणेनाधिक्येन संसारमतिक्रान्ताः, अनेन
ज्ञानिनो धर्मतीर्थस्य, कर्तारः परमं पदं ।
गत्वाशगच्छन्ति भूयोऽपि, भवं तीर्थनिकारतः ॥१॥ [ ] इति मतमपास्तं । सिद्धि वरगतिं गताः, इत्यनेन क्षीणकर्मणोऽपि लोकाग्रगमनस्वभावेनोत्पत्तिसमये सक्रियत्वमप्यस्तीति ख्याप्यते, उक्ताः सिद्धाः ॥६७॥ अथ संसारिण आह
संसारत्था उ जे जीवा, दुविहा ते वियाहिया ।
तसा य थावरा चेव, थावरा तिविहा तहिं ॥१८॥ व्याख्या-संसारस्थास्तु ये जीवास्ते द्विविधा व्याख्याताः, त्रसाश्च स्थावराश्चैव, तस्मिन् द्वैविध्ये सत्यपि, स्थावरास्त्रिविधाः सन्ति ॥६८।। त्रैविध्यमाह
पुढवी आउ य बोधव्वा, तहेव य वणस्सइ ।
इच्चेए थावरा तिविहा, तेसिं भेए सुणेह मे ॥६९॥ व्याख्या-पृथिवी आपो बोधव्याः, तथैव च वनस्पतयः, इत्येते स्थावरास्त्रिविधास्तेषां भेदान् शृणुत ! 'मे' वदतः तेजोवाय्वोर्गतेस्त्रसत्वेन स्थावरमध्येऽनुक्तिः ॥६९॥
पृथ्वीभेदानाह
दुविहा पुहवीजीवा उ, सुहुमा बायरा तहा ।
पज्जत्तमपज्जत्ता, एवमेए दुहा पुणो ॥७०॥ व्याख्या-द्विविधाः पृथ्वीजीवास्तु सूक्ष्माश्च बादराः, तथा पर्याप्ताः, आहार
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org