________________
५६०
श्रीउत्तराध्ययनदीपिकाटीका-२ जोयणस्स उ जो तत्थ, कोसो उवरिमो भवे ।
तस्स कोसस्स छब्भाए, सिद्धाणोगाहणा भवे ॥६२॥ व्याख्या योजनस्य तु उपरिवर्ती यः क्रोशो भवेत् , तस्य क्रोशस्य षड्भागे, इत्यनेन सत्रिभागत्रयस्त्रिंशदधिकधनुःशतत्रितयरूपे सिद्धानां तत्राऽवगाहनाऽवस्थितिर्भवेत् ॥६२॥
तत्थ सिद्धा महाभागा, लोयग्गंमि पइट्ठिया ।
भवप्पवंचउम्मुक्का, सिद्धि वरगइं गया ॥६३॥ व्याख्या-तत्र सिद्धा महाभागा अतिशयाऽचिन्तशक्तयो लोकाग्रे प्रतिष्ठिताः, भवा नारकाद्यास्तेषां प्रपञ्चो विस्तारस्तेनोन्मुक्ताः सिद्धि वरगतिं गताः प्राप्ताः, भवप्रपञ्च एव चलने हेतुः, स च सिद्धानां नास्त्यतस्ते महासौख्याः ॥६३॥ तत्र कस्य कियत्यवगाहनेत्याह
उस्सेहो जस्स जो होइ, भवंमि चरिमंमि उ ।
तिभागहीणा तत्तो य, सिद्धाणोगाहणा भवे ॥६४॥ व्याख्या-उत्सेधः शरीरस्य येषां सिद्धानां यो यत्परिमाणो भवति भवे चरमे पर्यन्तवर्त्तिनि, तुर्विशेषणे, ततः पुनश्चरमभवोत्सेधात् त्रिभागहीना सिद्धानामवगाहना भवेत् ॥६४||
एतानेव कालतः प्ररूपयति
एगत्तेण या साइया, अपज्जवसिया वि य ।
पुहुत्तेण अणाइया, अपज्जवसिया वि य ॥६५॥ व्याख्या-एकत्वेनाऽसहायत्वेन विवक्षिताः, सादिका अपर्यवसिताः, अपि च यत्र हि काले ते सिद्धयन्ति स तेषामादिरस्ति, न तु कदाचिन्मुक्तेर्धस्यन्तीति न पर्यवसानं, पृथक्त्वेन बहुत्वेन सामस्त्यापेक्षयेति यावत् , किमित्याह-अनादिका अपर्यवसिता अपि, न हि कदाचित्तेनाऽभूवन् भविष्यन्ति चेत्यर्थः ॥६५।। एषामुपाधिनिरपेक्षं स्वरूपमाह
अरूविणो जीवघणा, नाणदंसणसण्णिया । __ अतुलं सुहं संपत्ता, उवमा जस्स नत्थि उ ॥६६॥
व्याख्या-रूपिणो रूपरसगन्धस्पर्शवन्तस्तद्विपरीता अरूपिणस्तेषां रूपाद्यभावात् , जीवाश्च सततोपयुक्ततया घनाश्च सुषिरपूरणतो निरन्तरनिचितप्रदेशतया जीवघनाः,
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org