________________
षट्त्रिंशं जीवाजीवविभक्तिसंज्ञमध्ययनम् इह तिर्यग्लोकादौ बोन्दि त्यक्त्वा, तत्रेति लोकाग्रे गत्वा सिद्धयन्ति, निष्ठितार्थाः शाश्वतसुखिनस्तिष्ठन्ति । यस्मिन्नेव समये भवक्षयस्तस्मिन्नैव समये मोक्षस्तस्मिन्नेव तत्र गतिः सिद्धत्वं च ॥५६॥
बारसहिं जोयणेहिं, सव्वट्ठस्सुवरिं भवे ।
इसिपब्भारनामाउ, पुढवी छत्तसंठिया ॥५७॥ व्याख्या-द्वादशभिर्योजनैः सर्वार्थस्य विमानस्योपरि भवेत् , ईषत्प्राग्भारनाम्नी पृथ्वी, छत्रसंस्थिता उतानछत्राकारा ॥५७।।
पणयालसयसहस्सा, जोयणाणं तु आयया ।
तावइयं चेव वित्थिन्ना, तिउणा साहिय परिरओ ॥५८॥ व्याख्या-पञ्चचत्वारिंशत् शतसहस्राणि योजनानां तु आयता दीर्घा, तावच्चैव विस्तीर्णा, विस्तरेऽपि पञ्चचत्वारिंशच्छतसहस्रप्रमाणेत्यर्थः, परिरयः परिधिः साधिकत्रिगुणा ।।५८॥
अट्ठजोयणबाहल्ला, सा मज्झंमि वियाहिया । परिहायंती चरिमंते, मच्छियपत्ताओ तणुयरी ॥५९॥ व्याख्या-अष्टौ योजनानि उत्सेधाङ्गुलनिष्पन्नानि बाहल्यं स्थौल्यं, सा मध्ये मध्यप्रदेशे व्याख्याता, परि समन्ताद्धीयमाना चरिमान्तेषु सकलदिग्भागवर्तिषु पर्यन्तप्रदेशेषु मक्षिकापत्रादपि तनुतरी, हानिश्चात्र प्रतियोजनमङ्गुलपृथक्त्वं ज्ञेया ॥५९॥
अज्जुणसुवण्णगमई, सा पुढवी निम्मला सहावेण ।
उत्ताणयछत्तयसंठिया, भणिया जिणवरेहिं ॥६०॥ व्याख्या-पुनः सार्जुनसुवर्णमयी श्वेतकाञ्चनस्वरूपा ['सा' इति] ईषत्प्रारभारा निर्मला स्वच्छा स्वभावेन नोपाधितः, पूर्वगाथायां सामान्येन छत्रसंस्थितेत्युक्तं, इहतूत्तानत्वं तद्विशेष इति न पौनरुक्त्यं, इत्युत्तानछत्रसंस्थिता च भणिता जिनेश्वरैः ॥६०॥
संखंककुंदसंकासा, पंडुरा निम्मला सुभा ।
सीयाए जोयणे तत्तो, लोगंतो उ वियाहिओ ॥६१॥ व्याख्या-शङ्खाककुन्दसंकाशा, पाण्डुरा निर्मला शुभा, सीतायाः सीताभिधानायाः पृथ्व्या ऊर्ध्वं योजने ततो लोकान्तो लोकपर्यन्तस्तु व्याख्यातः ॥६२।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org