________________
५५८
श्रीउत्तराध्ययनदीपिकाटीका-२ व्याख्या-दश च नपुंसकेषु, विंशतिः स्त्रीषु, पुरुषेषु चाष्टभिरधिकं शतं, समयेनैकेन सिद्धयन्ति ॥५१॥
चत्तारि य गिहिलिंगे, अन्नलिंगे दसेव य ।
सलिंगेण य अट्ठसयं समएणेगेण सिज्झई ॥५२॥ व्याख्या-चत्वारो गृहिलिङ्गे, अन्यलिङ्गे दशैव च, स्वलिङ्गे चाष्टशतं समयेनैकेन सिद्धयन्ति ॥५२॥
उक्कोसोगाहणाए उ, सिझंते जुगवं दुए ।
चत्तारि य जहन्नाए, जवमज्झत्तरं सयं ॥५३॥ व्याख्या-उत्कृष्टावगाहनायां सिद्धयतो युगपद् द्वौ, चत्वारश्च जघन्यायां, यवमध्यमिव यवमध्यं मध्यमावगाहना, तस्यामष्टोत्तरं शतं, यवमध्यत्वं चोत्कृष्टजघन्यावगानहनाऽपेक्षया बहुतरसङ्ख्यात्वेनास्याः पृथुलतयैव भासित्वात् ॥५३।।
चउरुड्डलोए य दुवे समुद्दे, तओ जले वीसमहे तहेव य ।। सयं च अद्रुत्तरं तिरियलोए, समएण एगेण उ सिज्झई धुवं ॥५४॥
व्याख्या-चत्वार ऊर्ध्वलोके, द्वौ समुद्रे, त्रयो जले, विंशतिरधः, तथैव अष्टोत्तरं शतं तिर्यग्लोके समयेनैकेन सिद्धयन्ति, उत्कृष्टतः सम्भवे सति ॥५४॥
कहिं पडिहया सिद्धा, कहिं सिद्धा पइट्ठिया ।
कहिं बोंदि चइत्ताणं, कत्थ गंतूण सिज्झइ ॥५५॥ व्याख्या-कस्मिन् प्रतिहताः स्खलिताः सिद्धाः, क्व कस्मिन् प्रतिष्ठिताः सिद्धाः, साद्यपर्यवसितं कालं स्थिताः क्व बोन्दि तनुं त्यक्त्वा कुत्र गत्वा सिद्धयन्ति ? ॥५५।।
अलोए पडिहया सिद्धा, लोयग्गे य पइट्ठिया ।
इहं बोंदि चइत्ताणं, तत्थ गंतूण सिज्झइ ॥५६॥ व्याख्या अलोके केवलाकाशलक्षणे प्रतिहताः, तत्र धर्मास्तिकायस्याऽभावेन तेषां गतेरभावात् , लोकाग्रे च प्रतिष्ठिताः सदा स्थिता:
अधस्तिर्यगथोर्ध्वं च, जीवानां कर्मजा गतिः । ऊर्ध्वमेव तु ताद्धा-द्भवति क्षीणकर्मणां ॥१॥[ ]
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org