________________
५५७
षत्रिंशं जीवाजीवविभक्तिसंज्ञमध्ययनम् अनेकविधत्वमेवैषामुपाधिभेदत आह
इत्थी पुरिस सिद्धा य, तहेव य णपुंसगा ।
सलिंगे अन्नलिंगे य, गिहिलिंगे तहेव य ॥४९॥ व्याख्या-सिद्धशब्दः प्रत्येकं योज्यः, ततः स्त्रीसिद्धाः १ पुरुषसिद्धाः तथैव च नपुंसकसिद्धाः ३ स्वलिङ्गे सिद्धाः यतिलिङ्गसिद्धाः ४ अन्यलिङ्गसिद्धाः, बौद्धादिविषयसिद्धाः ५ गृहिलिङ्गे गृहस्थवेषे सिद्धाः ६ तथैव च, चस्तु तीर्थभेदाद्यनुक्तभेदसूचकः, अन्यलिङ्गादावपि भावतोऽर्हन्मताश्रयात् सिद्धिर्जेया । अत्र यः कोऽपि वेत्ति स्त्रियो न सिद्धिप्राप्तिर्मनोबलहीनत्वात् सप्तमभूव्यगतिवत् , तदसत्यं, विचित्रत्वाज्जन्मस्वभावस्य, मत्स्याः सप्तमभुवं यान्ति, ऊर्ध्वं सहस्रारात् परतो न यान्ति, गृही अच्युतात् पुरतो न याति, केवलं तु लभते, ततः स्त्रियोऽपि केवलित्वे भावतः, पुरुषत्वे द्रव्यतः, अवयवैः स्त्रीत्वेऽपि सिद्धिरस्ति । योऽभ्यन्तरस्त्रीत्वः स न सिद्धयति, नरादेरपि सत्त्वहीनस्यैवान्तरस्त्रीत्वात् , अतोऽस्ति स्त्रीणां मुक्तिः, महाव्रतित्वान्नृवत् । तथा ये स्त्रीषु दोषा उक्ता यथा-वादलब्ध्यज्ञत्वात् नराऽवन्द्यत्वात् पूर्वाद्ययोग्यत्वात् चञ्चलत्वात् मायावत्त्वात् इत्याद्या ये हेतवस्ते सिद्ध्यभावे न प्रमाणं । यतश्चतुर्दशपूर्व्यादीनामपि न सिद्धैनैयत्यात् अनन्तभवभ्रमाच्च, ततो व्यवहारः श्राद्धसाधुसाध्वीनां सिद्धान्तोक्तो नत्यादिर्यथा प्रमाणं, तथा स्त्रीणां मुक्तिरपि महाशीलत्वात् , सवस्त्रत्वे साधूनां साध्वीनां च नाऽपरिग्रहव्रतक्षतिर्धर्मोपकारित्वात् वस्त्राणां देहादिवत् , तेन परिग्रहत्वात् स्त्रीणाममुक्तिरिति न वाच्यम् ॥४९॥ सिद्धानेवावगाहनातः क्षेत्रतश्चाह
उक्कोसोगाहणाए य, जहन्नमज्झिमाइ य ।
उ8 अहेयं य तिरियं च, समुइंमि जलंमि य ॥५०॥ व्याख्या-अवगाहन्तेऽस्यां जीवा इत्यवगाहना देहः, उत्कृष्टावगाहनायां पञ्चधनुःशतमानायां, च जघन्यावगाहनायां द्विहस्तमानायां, मध्यमायामुत्कृष्टजघन्यावगाहनान्तरालवर्त्तिन्यां सिद्धाः, ऊर्ध्वमूर्ध्वलोके मेरुचूलादौ, अधश्चाधोलौकिकग्रामरूपे, तिर्यग्लोके चार्द्धतृतीयद्वीपे, तथा द्वयोः समुद्रयोः, जले नद्यादीनां, गिर्यादिषु च स्युः ॥५०॥ स्त्र्यादिषु क्व कियन्तः सिद्ध्यन्तीत्याह
दस य नपुंसएसु, वीसइ इत्थियासु य । पुरिसेसु य अट्ठसयं, समएणेगेण सिज्झइ ॥५१॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org