SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ ५५६ श्रीउत्तराध्ययनदीपिकाटीका-२ संठाणओ य चउरंसे, भइए से वि वण्णओ । गंधओ रसओ चेव, भइए फासओ वि य ॥४५॥ व्याख्या संस्थानतो यश्चतुरस्रो भवेत् सोऽपि वर्णगन्धरसस्पर्शसंस्थानतश्चापि भाज्यः ॥४५।। जे आययसंठाणे, भइए से वि वण्णओ । गंधओ रसओ चेव, भइए फासओ वि य ॥४६॥ व्याख्या-य आयतसंस्थानः प्रलम्बो भवेत् सोऽपि वर्णगन्धरसस्पर्शसंस्थानतश्चापि भाज्यः ॥ अत्र गन्धौ द्वौ, रसाः पञ्च, स्पर्शा: अष्ट, संस्थानानि पञ्च, एते च मिलिता विंशतिः, इत्येकेन कृष्णेन लब्धाः, एवं २० भङ्गान् प्रत्येकं पञ्चापि वर्णा लभन्ते, एवं पञ्चभिर्वर्णैर्लब्धं शतं १००, तथा गन्धौ द्वौ, तौ विनाऽष्टादश पञ्चभिमिलितैस्त्रयोविंशतिः २३, ततश्च गन्धद्वयेन लब्धाः ४६, एवं रसपञ्चकस्य प्रत्येकं पञ्चके गन्धद्वयस्पर्शाष्टकसंस्थानपञ्चकैः २० भेदाः, एवं १०० भेदाः, स्पर्शाष्टके प्रत्येकवर्णसंस्थानरसपञ्चकैर्गन्धद्वयेन च गुणने १७ भेदाः, सर्वे १३६, अत्र संस्थानपञ्चके वर्णगन्धरसस्पर्शानां विंशतिः, संयोगे शतं १००, एवं वर्णादीनां सर्वभङ्गसङ्कलना चत्वारि शतानि द्वयशीत्यधिकानि ४८२ ॥४६।। उपसंहरन्नुत्तरसम्बन्धमाह एसा अजीवपविभत्ती, समासेण वियाहिया । एत्तो जीवविभत्तिं, वोच्छामि अणुपुव्वसो ॥४७॥ व्याख्या-एषाऽजीवविभक्तिः समासेन व्याख्याता, इत इत्यजीवविभक्तिव्याख्यानादनु जीवविभक्तिं वक्ष्याम्यानुपूर्व्या ॥४७॥ संसारत्था य सिद्धा य, जीवा दुविहा वियाहिया । सिद्धा णेगविहा वुत्ता, तं मे कित्तयओ सुण ॥४८॥ व्याख्या-संसारस्थाश्च सिद्धाश्च द्विविधा जीवा व्याख्याताः, तत्राऽनेकविधाः सिद्धाः, अनेकविधत्वं सिद्धानामुपाधिभेदतः, तमिति सूत्रत्वात्तान् मे कीर्तयतः शृणुत ! ॥४८॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002569
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorJaykirtisuri
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy