________________
५७६
श्रीउत्तराध्ययनदीपिकाटीका-२ एगूणवन्नहोरत्ता, उक्कोसेण वियाहिया ।
तेइंदियआउठिइ, अंतोमुहत्तं जहन्निया ॥१४१॥ व्याख्या-त्रीन्द्रियजीवानामुत्कृष्टायुःस्थितिरेकोनपञ्चाशद्दिनानि व्याख्याता, जघन्या चान्तर्मुहूर्तम् ॥१४१।।
संखिज्जकालमुक्कोसं, अंतोमुहत्तं जहन्नियं ।
तेइंदियकायठिइ, तं कायं तु अमुंचओ ॥१४२॥ व्याख्या-त्रीन्द्रियाणां स्वकायममुञ्चतामुत्कृष्टाऽसङ्ख्येयकालं स्थितिः, जघन्या चान्तर्मुहूर्तं स्थितिः ॥१४२॥
अणंतकालमुक्कोसं, अंतोमुहुत्तं जहन्नयं ।
तेइंदियजीवाणं, अंतरं तु वियाहियं ॥१४३॥ व्याख्या-त्रीन्द्रियजीवानामुत्कृष्टमन्तरमनन्तकालं, जघन्यं चान्तर्मुहूर्त व्याख्यातम् ।।१४३।।
एएसिं वण्णओ चेव, गंधओ रसफासओ ।
संठाणदेसओ वा वि, विहाणाइं सहस्ससो ॥१४४॥ व्याख्या-एतेषां त्रीन्द्रियाणां वर्णतो गन्धतो रसतः स्पर्शतः संस्थानादेशतश्चापि सहस्त्रशो भेदाः सन्ति ।।१४४॥ अथ चतुरिन्द्रियानाह
चउरिदिया उ जे जीवा, दुविहा ते पकित्तिया ।
पज्जत्तमपज्जत्ता, तेसिं भेए सुणेह मे ॥१४५॥ व्याख्या-चतुरिन्द्रियाश्च ये जीवाः सन्ति, ते द्विविधाः प्रकीर्तिताः पर्याप्ता अपर्याप्ताश्च, तेषां भेदान् 'मे' कथयतः शृणुत ! ॥१४५।।
अंधिया पोत्तिया चेव, मच्छिया मसगा तहा ।
भमरे कीडपयंगे य, ढिंकुणे कुंकणे तहा ॥१४६॥ व्याख्या-अन्धिकाः, पौत्तिकाः, मक्षिकाः, तथा मशकाः भ्रमरास्तथा कीटपतङ्गाः, ढिकुणास्तथा कुङ्कणाः ॥१४६॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org